पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ षष्ठप्रो- ५२० सत्याषाढविरचितं श्रौतसूत्र-

न्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहाऽऽगच्छत्वदो म आगच्छत्विति सꣳस्रावभागान्यत्कामयते तस्य नाम गृह्णाति ।

संस्थावाननुमन्त्रयते । अन्यत्पूर्ववत् ।

वेदोऽसि वित्तिरसीतिवेदमन्तर्वेद्यासन्नमभिमृशति ।

मासन्नं कृत्वाऽभिमुशति ।

विदेयेत्यस्य पुरस्तादुपरिष्टाद्वा यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ॥१०॥

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने तृतीयः पटलः॥३॥

in विदेयेति पदस्य पूर्व पश्चाद्वा भ्रातृव्यस्य यद्यदभिध्यायेन्ममास्स्विति तस्य नाम गृह्णीयापाप्मनो व्यावृत्ति विदेयेति ज्ञेयम् । अर्थवादोऽन्यो विश्वासार्थः । इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैः जयन्यां षष्ठे याजमानमश्ने तृतीयः पटलः ॥३॥


6.4 अथ षष्ठप्रश्ने चतुर्थः पटलः ।

पत्नीसंयाजेषु सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति सोमस्य त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमिति त्वष्टुर्देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्चेति देवपत्नी राकाया अहं देवयज्यया प्रजावान्भूयासमिति राकां सिनीवाल्या अहं देवयज्यया पशुमान्भूयासमिति सिनीवालीं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति कुहूमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया प्रतिष्ठावान्भूयासमित्यग्निं गृहपतिं देवानां पत्नीरग्निर्गृहपतिरिति समस्तानुमन्त्रणमेके समामनन्ति ।

यपत्र चस्वार एव पत्नीसंयाजास्तदा समस्तानमन्त्रणम् । सौम्य(सोम)स्य स्पष्टुरित्यु- मयत्र हुतमिति ज्ञेयम् । अन्यत्र यद्यपि देवतास्तथाऽपि हुतमिति । . । १ क. ख, ग, च, ट, ठ, ण, सौम्यस्य ।