तपटल:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१९ वचनं यस्या यस्या अस्ति होतुरभिव्याहरणं तस्यास्तस्या अनुमन्त्रणं यथा स्यादिति । तेनोपांशुयानस्याऽऽन्यपानां चासत्यपि तैत्तिरीयकपाठे कार्यमनुमन्त्रणम् । पाठः शाखान्तरीयोऽनुमेयः । केचिदपांशुयानापपानां तद्विकाराणां सवनदेवतानां च न कुर्वन्ति पाठाभावात् । तेषामाचार्यप्रयत्नानर्थक्यं स्यात् । ऐन्द्राग्नस्य निपिवदग्नीषोमी. यस्य परिदानवत्तेषां शाखान्तरे पाठसद्भाव इति भगवतः सत्याषाढस्यामिप्रायः।
यर्हि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति ।
याह यदा ताई तदा ब्रह्मवर्चस म आगम्यादित्यन्तः ।
सा मे सत्याऽऽशीर्देवेषु भूयान्मन्यान्मन्यतमाज्जुष्टाज्जुष्टतमादरैडता मनसा तच्छ केयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वित्याशीष्षु जपति ।
आशीष्षु होत्राऽऽयुराशास्त इत्यादिषूच्यमानासु जपति।
अदो म आगम्यादिति यत्कामयते तस्य नाम गृहाति ।
स्वर्गो माऽऽगम्यादित्यादिना यत्कामयते तस्य कामो यसो माऽऽगम्याद्विष्णुभ- तिर्माऽऽगम्याद्ब्रह्मज्ञानं माऽऽगम्यादिति यद्रोचते तस्य नामानेन प्रकारेण गृह्णीयात् ।
रोहितेन त्वाऽग्निर्देवतां गमयत्त्वित्येतैः प्रस्तरमवसृष्टम् ।
आहवनीयेऽवसृष्टमनुमन्त्रयते त्रिभिः । इतः परमपि द्वितीयानिर्दिष्टं यद्यप्नौ प्रक्षिप्तं तर्हि तत्रानुमन्त्रयत इत्यनुषञ्जनीयमन्यत्र द्वितीयान्तेऽमिमन्त्रयत इति तथैव ६. भरद्वाजोपदेशात् ।
दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्तं तापयामसि द्विषन्नस्ताप्यतां बहुमानागास्तप्यौषधय इति प्रस्तरस्य तृणमनुप्रहृतम् ।
आहवनीये।
विष्णोः शंयोरहमिति शंयुवाके ।
जपति । गमेयमित्यन्तः।
वि ते मुञ्चामि रशना इति द्वाभ्यामग्निं परिधिषु प्रह्रियमाणेषु ।
आहवनीयमभिमन्त्रयते।
इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वाꣳ अथर्वभिः । तस्य मेष्टस्य वीतस्य द्रविणमागम्याद्वसुर्यज्ञो वसुमा
१ ख. च. ट. उ. 'से माऽऽग° । २ क. ख. ग. क. च. ट, ठ. 'पाजु । ३ क. ग. क. स.म.क. स. प. मारे। क. ग. च. 2. स. ग. दो माग । ऽऽऽ