पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ षष्ठप्रश्चे- - 2 सत्यापाढविरचितं श्रौतसूत्र-

श्चाम्यहं वाक्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत । अग्ने यो नो भिदा सति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने संदह याꣳश्चाहं द्वेष्मि ये च मामित्यनूयाजसमिधमाधीयमानाम् ।

अभिमन्त्रयत इति शेषः।

वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ रुचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसंनहने हुत इतीध्मसंनहने हुते ।

जपति ।

अङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्यनूयाजेषु जपति सप्तहोतारं पुरस्तादनूयाजानामुपरिष्टाद्वा व्याचक्षीत बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैरनूयाजानाꣳ हुतꣳ हुतमनुमन्त्रयते वाजस्य मा प्रसवेनेति द्वाभ्याꣳ स्रुचौ व्यूह्यमाने ॥ꣳ॥

अभिमन्त्रयते ।

वसून्देवान्यज्ञेनापिप्रेयꣳ रुद्रान्देवान्यज्ञेनापिप्रेयमादित्यान्देवान्यज्ञेनापिप्रेयमिति परिधीनज्यमानान्समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति स्रुक्षु प्रस्तरमज्यमानमपिप्रेड्यज्ञो यज्ञमयाङ्देवाꣳ अरंकृतः सोमः । तं मित्रो वरुणो अर्यमा रायस्योषा यजमानं विशन्त्विति प्रस्तरस्य तृणमपात्तम् ।

अमिमन्त्रयते ।

अग्नेरहमुज्जितिमनुज्जेषमितिसूक्तवाकेन होता यां यां देवतामभिव्याहरति तां तां यजमानोऽनुमन्त्रयते ।

तां तां यजमानः सन्ननुमन्त्रयते । तथाच यावत्य इष्टा देवतास्ताः सर्वा अपि शाखान्तरीयपाठेनानुमन्यते । तथाचाऽऽह भाष्यकार:- अग्नेरहमिति । यथालिङ्गं देवता अनुमन्नयत इति लाघवेन वक्तव्ये यां यां देवतामभिव्याहरति ता तामिति 1 १ क. स्व. ग. च. ट, ठण. तियां। २. ढ, 'के हों। ३ क. स. ग, घ, ट. ठ.. 'वतो होतामि।