पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ षष्ठप्रश्नै- - + ५१४ सत्यापादविरचितं श्रौतसूत्र-

स्थाली घृतस्य पूर्णा छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥५॥ यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्यग्नीषोमीयं यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनां नुदे तामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ।

भासन्नमिति त्रिषु ज्ञेयम् । सानाय्य आसाद्यमान इति विशेषस्य वक्ष्यमाणत्वात् ।

यस्त आत्मा पशुषु प्रविष्ट इति सांनाय्य आसाद्यमाने ।

जपति ।

इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशः सह ओजः सनेयꣳ शृतं मयि श्रयतामिति शृतं यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधि नोन्महेन्द्रं दधि मां धिनोत्विति दधि ।

एतदन्तमभिमन्त्रयते।

अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सꣳसन्नान्यभिमृशति ॥ ६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्ने द्वितीयः पटलः ॥२॥

सश्सन्नानीति बहुवचनेन सर्वाणि गृह्यन्ते । तथैवोक्तमापस्तम्बभरद्वाजाम्यामपि सर्वाणि हवीसीति । प्रधानाङ्गानि गृह्यन्ते । ससन्नानीति समुपसर्गस्य ग्रहणं श्रुत्य. नुविधानेन । नतु संसादयतीति विधिना कानिचित्सादितानि सन्ति किंतु सादयत्या- सादयतीति । अथवा समुदायापन्नानि सन्ति सन्नानीति सामान्यमुभयेष्वप्यस्तीति युक्तम् । तथाचाऽऽज्यसमुदाय एक इतरसमुदाय एक इति प्रत्येक मन्त्रावृत्तिः । भभिमृशति सकृत्ततस्तथैवान्यं संसन्नानीतिप्रयोगसामर्थ्यात् । इसि सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां मयोगवैजयन्त्यां षष्ठे याजमानमने द्वितीयः पटलः ॥२॥