पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि० पटल] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यातुधानाः पिशाचा इति परिधितम् ।

परिहितमिति का पाठः । परिहितं व्याकरणसिद्धम् । परिधित छान्दसम् ।

विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती साद्यमाने ॥ ४ ॥ अयं प्रस्तर उभयस्य धर्त्ता धर्त्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति विधृत्योः प्रस्तरꣳ साद्यमानम् ।

इस ऊर्ध्व स्थालीमित्यन्तं साबमानां सायमानमिति यथायोगं क्षेयम् ।

आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गो वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रियाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवानाग्नेयेन शर्मणा दैव्येनेति जुहूमवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवा नैन्द्रेण शर्मणा दैव्येनेत्युपभृतं यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवाऽसि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाꣳ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयꣳ स्रुवो अभिजिहर्ति होमान्छतक्षरं छन्दसाऽऽनुष्टुभेन । सर्वा यज्ञस्य समनक्तु विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवमियꣳ