पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सस्याषाढविरचितं श्रौतसूत्र- [१ षष्ठप्रश्ने-

तस्या उच्छेणमातञ्चनार्थं निदधाति ।

तस्या यवाग्वा ययाऽमिहोत्रं यस्याश्चतुरुन्नयनेनाग्निहोत्रं हुतं तस्या उच्छेषणमग्नि- होत्रहवणीगतं भक्षणलोपेनाऽऽतञ्चनार्थमिति प्रयोजनकथनेनेदमुक्तं नोच्छेषणप्रतिपत्ति- रियं तेनोच्छेषणनाशे प्रतिनिधिनाऽऽतञ्चनमित्युक्तमेव । नचाऽऽनश्चनार्थ यवाग्वा होमः पुनर्युक्त आतञ्चनार्थं जुहुयादित्यविधानात् । स च स्वविधिप्राप्त एव संनयति यजमा. नेऽमावास्यायां यवाग्वा नियम्यतेऽत एव तस्या उच्छेषणमनुनिष्पन्नमेवाऽऽतश्चनार्थमि- त्युक्तम् । तेन यदुक्तं बौधायनेनोच्छेषणार्थ पुनम इति तत्प्रत्युक्तं न्यायशास्त्र. विरोधात् ।

नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नैताꣳ रात्रिमश्नाति ।

भनृतक्दनस्य प्रतिषेधे सत्येवानवाहिताग्नेः पुनर्वचनं कर्माङ्गत्वख्यापनार्थम् । तेन प्रमादादनृतवदने तदैव प्रायश्चित्तं कृत्वाऽग्रिमं कर्म कर्तव्यमिति दर्शितम् । न मांसमि- त्यपि भोजनव्यतिरेकेणापि प्रतिषिध्यते पूर्वे तु प्रातराशे व्यञ्जनत्वेन प्राप्तस्य प्रतिषेधः । अयं तु पुनरन्योऽपि प्राप्तस्य फलादेरिव । अथवा मासिकादिकर्तुः श्राद्धानसशेष- भक्षणं प्राप्तं तत्रापि मांसव्यतिरिक्तमेव शेष भक्षयेदिति निषेधसिद्धिः।

आरण्यस्य सायमश्नाति ।

सायं ययभाति तदाऽऽरण्यस्याश्नाति । ग्राम्यपरिसंख्यार्थमिदम् । क्रमप्राप्तेऽपि सायंमोनने सायंग्रहणं द्वितीयभोजनस्योपलक्षणार्थ तेनैते प्रयो विकल्पा आरण्याशन- मम्पशनमनशनं चेति द्वितीयभोजन एव । दैवात्प्रातराशे सायमुत्कृष्टेऽपि नैते विकल्पा भवन्ति किंतु प्रातराशः पूर्ववदेव भवतीति प्रयोजनम् ।

आमार्गादा मधुन आप्राशातिकादित्येकेषाम् ।

मृगमांसं मधु वर्जयित्वाऽन्यदारण्यस्यानाति । आवधौ । एकेषां प्राशातिक च धर्मयित्वाऽन्यदारण्यकम् । प्राशातिक धान्यमपामार्गबीनसशमिति भाष्यकारमतिः । कोशीधान्यमित्यन्ये ।

आरण्यायोपवसन्नपोऽश्नीयान्न वा किंचन ।

आरण्यायाऽऽरण्यमुपवसन्वर्ज [यन्नपस्ता अपि नाभीयादिति तृतीयः पक्षः ।

उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसापि मह्यं गोपतये पशूनिति परिस्तीर्यमाणेषु जपति ।

परिस्तीर्यमाणेप्वग्निषु सकृन्मन्त्रः । उपस्तीर्यः पूर्वश्चेति ब्राह्मणे द्वयोर्ग्रहणं क्रमा प्राधान्यात् । नेता रात्रिमन्नातीति पाठः केवळसूत्रपुस्तकेम्वेव ।