पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

0 १५ पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । ५०७

समुद्रं मनसा ध्यायन्सम्राडसि व्रतपा असि, व्रतानां व्रतपतिरसि व्रतमारभे तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमित्यादित्यमुपतिष्ठते ।

समुद्रध्यानं कुर्यादित्येव । तदुक्तं सूत्रान्तरे व्रतमुवैष्यन्समुद्रं मनसा ध्यायतीति सम्राउसि वित्यमुपतिष्ठते ।

अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणोऽग्निमुपतिष्ठते ।

सध्यत्तमित्यन्तः।

वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् ।

अग्नि देवानां व्रतपतिरिति श्रुतेरग्निमुपतिष्ठते । व्रतं परिष्यामीतिः त्रिष्वप्यनुषकः ।

एते साधारणा ऋतेऽग्नेः ।

अमेरुपस्थानमन्त्रं विनाऽन्ये मन्त्राः क्षत्रियवैश्ययोब्राह्मणस्यापीत्यर्थः । यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते । विकृत्यनुष्ठानेन दैवान्मानुषाद्वा ब्रतोपायनं सूर्यास्तमये स्यात्तदाऽऽदित्योपस्थान (न)मन्त्रेणाऽऽहवनीयमेवोपतिष्ठेत तत्राऽऽदित्यस्य प्रविष्टत्वात् ।

पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति ।। १ ।।

स्वयमेवेति यजमानः प्रारब्धप्रयोग एव पर्वणि अधिकृताधिकारोऽयं पर्वणीति घुनर्वचनात्सायं प्रातश्च नियमः। पर्वणीति ग्रहणमग्निहोत्रस्य प्राप्तस्यैव पर्वणि नियमार्ष नतु दर्शपूर्णमासाङ्गतया याजमान विधीयत इति दर्शयितुम् ।

यवाग्वाऽमावास्यायाꣳ संनयन् ।

स्वयं यजमान इत्यनुवर्तते । द्रव्यं वैकल्पिक नियम्यते यवाग्वैवेति । संनयन्नित्येक वक्तव्येऽमावास्याग्रहणं प्रतिपदि संज्ञातः प्रातर्मा भूत्तत्र नित्येनैव द्रव्येण भरद्वाज आहास्याममावास्यायां रात्रि कुमारा न पयः पिबन्ति यवाग्वाऽस्यैतां रात्रिमग्निहोत्रं हुत्वेति । अत्र कुमाराणां पयःप्रतिषेधः सानाय्ये सर्वगवां दोहरिधिनिमित्तः । अतः संनयत एव रात्रावमावास्यायां रात्रि कुमारा न पयः पिबन्ति यवः ग्वाऽस्यता होमः । तत्रापि पर्वणि स्वयमेवातस्तु यवागूहोमो नासंनयतः । तदाह कात्यायनः-यवाग्वाऽ- ग्निहोत्रहोमः संनयतस्तां रात्रिमिति । ननु पौर्णमास्यां संनयतो यवाम्बा न रात्रौ होमः स्यादिति चेन्न । गवां सांनाय्यार्थदोहाद्यत्र यवानाऽग्निहोत्रमिति नियमः । नच प्रात- रपि स्यादिति । रात्रि न पयः पिबन्तीति प्रातरग्निहोत्री विनाऽन्यातां दीहः । १च. ट. यां यवाग्वा हो'। ३, ४. छ, 'यमित्येवा।