पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ सत्याषाढविरचितं श्रौतसूत्र- [६ षष्ठप्रश्वे--

इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदिमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु ।

जपतीत्यनुषङ्गः ।

बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् ।

बर्हिषा तदाहरणेन सह वत्सापाकरणेन सहेति ज्ञेयम् ।

अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति ।

पौर्णमास्यामनियतकालं प्राप्त भोजनम् । तत्रेदमुच्यते सत्यां क्षुधि काळे भोननं ततोऽन्वाधानं न प्रातरेव । ततो व्रतं व्यवधानेनैव बहिषा पूर्णमासे व्रतमुपैतीत्युक्तम् । तस्य विकल्पनमन्यन्वाधानमनन्तरमेव व्रतोपायनमेकेषामित्यर्थः । ततस्तु श्वोभूने बहि- राहरणपक्षेऽयमेव क्रमः।

अग्न्यन्वाधानमशनं व्रतोपायनमित्येके ।

अनुपूर्वाण्येवेत्यर्थः । असंनयतोऽप्येवमेव ।

प्रणीतासु प्रणीयमानास्वासन्नेषु हविःषु चैतौ साधारणौ कालौ ।

पर्वतयेऽप्येतयोः कालयोबतोपायनं विकल्पत इत्यर्थः । अब साधारणमात्पू- योः पक्षयोर्व्यवस्थितो विकल्पः क्रमेण पर्वद्वय इति गम्यते । व्रतोपायनमेव दर्शयति-

विद्युदसीत्यप उपस्पृश्य ।

अत्राग्निहोत्रोकेन मयि श्रद्धेत्यन्तेन ।

अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य पयस्वतीरोषधय इत्यप आचामति ।

सरसमेत्यन्तः । आचामति प्राश्नाति । ततो बहिःशुद्धयर्थमाचमनम् ।

देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोम्यात्मा करोत्यात्मन इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवमिति देवता उपतिष्ठते ।

प्रयस्त्रिंशदेवता उपतिष्ठते दक्षिणातिकान्त एव ।