पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०५ FA १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । पौर्णमासेन यक्ष्य इत्युक्त्वा केशश्मश्रूणि वापयित्वोपवासति । दर्शेन यक्ष्य इत्युक्त्वो- पवसतीति । संकल्पानन्तरं पौर्णमास्यामेव वपनमिष्टं तदङ्गस्वेन । केचित्तु पावत्पर्यन्तं* प्रयोगसमाप्तिस्तावद्वपनस्य काल इति ज्ञापयितुं पर्वग्रहणमित्याहुः । केशाञ्छिरोगता- न्मुखगतानि श्मभूणि नापितेन वापयते । अत्र केशशब्दप्राथम्यमजन्तस्वेन नतु कमार्थम् । क्रमस्तु श्मश्रूण्यग्ने वापयतेऽथोपपक्षावथ केशानथ नखानि सव्यस्य हस्तस्य कनिष्ठादि ततो दक्षस्यैवं पादयोः ।

पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतः ।

पूर्वसूत्रे व्युदस्ता पत्नी पुनर्गृहोता । प्रातराशः प्रातर्भोसनं, प्रथममोजमे रूटोऽयं शब्दः प्रातराश इति नतु प्रातरेवेति । तेनाध्वर्यवे य उदित आदित्ये गार्हपत्यादाह. पनीयमित्यादिनोक्तोऽन्वाधानस्य प्रातःकालो न बाधितः प्रातरवाधानस्येष्टत्वात् । कालस्त्वनियतः । सत्यां सुधि भोजननियमः । तत्र सपिमिश्रता कर्माङ्गत्वेन नियम्यते, भोजन चेच्छात एव, तनासत्यां क्षुधि कालबाधेऽपि सर्पिमिश्रत्वं न बाध्यते वचनादु. भयोरपि नियमः । तच्छिकेऽदनीये प्राप्त परिसंचष्टे--

यदन्यन्मांसान्माषेभ्यश्च ।

उमयोः परिसंख्यानादनिषिद्धं भोक्तव्यम् ।

न सुहितौ स्याताम् ।

मातितृप्तौ भवतः।

प्राग्वत्सापाकरणादमावास्यायां कामं सुहितौ स्याताम् ।

पूर्णमासे भोजनकालानियमोऽत्र नियमः । पक्षान्तं कर्म निवर्य वैश्वदेवं तु साग्निकः ।। तु पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥ इति । क्रमेण ततो भोजनं वत्सापाकरणं व्रतं च । अत्रापि सपिमिश्रताऽनुवर्तते यद. म्यदिति छ । अत्र पिण्डपितृयज्ञमासिककर्तुरपराहे भोजनानन्तरं वत्सापाकरणं कात्यायनोक्तम् । अत्रापि पूर्ववदेव । सर्पिषोऽमावे दध्रा पयसा वेत्यापस्तम्ब- वैखानसी।

अग्निं गृह्णामि सुरथमित्यन्वाधीयमानेषु जपति ।

यथालिङ्ग देवतारूपेप्वग्निविात शेषः । अहिर्बुनियो नियच्छवित्यन्तान्यथालि. समन्वाधाने विहितांस्तथैव नपति तीन प्रविश्यानेणाऽऽहवनीयं गतः स्वायतन उपविष्टः। .

  • अत्र पर्यन्तशब्दोऽधिकः।