पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ सत्यापाठविरचितं श्रौतसूत्र- [१ षष्ठप्रग्ने न प्रधानकर्मणो स्यातामिति प्रधानकर्मता प्रकाशनमात्रप्राधान्यानोच्चारणप्राधान्यात् । शास्त्रेषचारणमङ्गमेव करणमत्रेष्विव । स्तोत्रेषु साम्ना स्तुवीतेति गौतिषु सामा. रुपेति नैमिनिनोक्तत्वादानं च स्वरमाध्यमेवेति. साम्ना गीत्या संस्कृताभिमग्नि- देवतागुणान्प्रकाशयेदिति स्तोतेः पर्यवसानात्करणमन्त्रेषु मन्त्रसाध्यक्रियया स्तोत्रश- नयोरर्थप्रकाशनेन जसे तूच्चारणेनापूर्वोत्पत्तिरिति विधिसामर्थन प्रकृतिश्रुत्याऽनुगृही- तेनावगम्यत इति चतुरश्रम् । सपनोपस्थानादिषु जपत्वे सत्यपि चासाधारण्येन व्यपदेशा भवन्तीति न्यायानागृहीतविशेषेण विशेष्ये बुद्धिरिति चोपसर्गविशिष्ठ(तु. भिर्विशिष्टमेव वाच्यमिति विशिष्टानामेव व्यपदेश उपस्थानमनुमन्त्रणमामिमन्त्रणमभि- मर्शनमिति केवले पूर्वोत्पादके मन्त्रोचारणे तु जप इति व्यपदेशो धारणार्थेऽध्ययन- मिति दयविलक्षणे च मन्त्रपाठ इत्युच्चारणप्रधानता तु सर्वत्र न व्यभिचरतीति युक्ततरं सूत्रमिति ।

यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्यं जपाश्च ।

दंपत्योरविशेषेण प्राप्तानि यजमानकर्माणि पत्न्या नियम्यन्ते । कुतः । यदि पानमानं कर्म सर्व तस्या अपि स्यात्तदा पत्न्यवेक्षन इत्यनर्थकं स्यादतो ज्ञायते यावदुक्तमेव तया कार्यम् । अत्र यावदुक्कमेव कर्माणीति नियमो नतु यावदुक्तं कर्माण्येवेति न ब्रह्मचर्यजपपरिसंख्येति वक्तुमुक्तं ब्रह्मचर्य जपाश्चेति । ब्रह्मचर्य तयन- 1 मानस्य ब्रह्मचर्येणार्थात्तस्या अपि सिद्धमेव तथाऽपि मनोविकारमपि निरुध्या(न्ध्या)- दिति वक्तं पुनर्वचनम् । पत्नीप्रत्यगाशिषां मन्त्राणां याजमाने च न विनियोग इति तेषां लिङ्गेन नपार्थोऽयमारम्भः । जपशब्देनोपस्थानादिकमपि स्वस्याः प्रत्यगाशिषां नियम्यते ।

दर्शपूर्णमासयोर्याजमानं व्याख्यास्यामः ।

दर्शपूर्णमासादय एव हविर्यज्ञा उकास्तेष्वेव यानमान व्याचिख्यासितम् । तथाऽपि पूर्वतनं याजमानं सर्वकर्मसाधारणमिति वक्तुं दर्शपूर्णमासयोरित्त्युक्तम् । पूर्वतनं प्रसङ्गेन सर्वामित्यर्थः । दर्शपूर्णमासयोाख्यास्याम इत्येतावता सिद्धे यानमान. ग्रहणं दर्शपूर्णमासशब्देन कालग्रहणं मा भूदिति । तेन वपन विधीयमानं न काल- मात्रे विधीयतेऽपि तु यजमानस्य संकल्पस्य सर्वाङ्गपूर्वभावित्वेनाभिधानायष्ट प्रवृत्तस्यैव तदङ्गतया कार्य नतु दैवात्कमशक्तेन दर्शपूर्णमासौ विच्छिन्नौ(!) नष्टाग्नि- नाऽपि या कार्यम् । उत्तरसूत्रे यनमानग्रहणं पत्न्या व्युदासार्थम् ।

पर्वणि यजमानः केशश्मश्रूणि वापयते ।

प्रथम एव पर्वणि यथा स्यादित्येवमथं पुनः पर्वणीति चैकवचनं च प्रथमपर्वसं- स्कृत उमयत्राधिकारीत्युभयप्रयोगसाध्यत्वादपूर्वस्य । अत एव वैखानसः-पूर्वस्मिन्वणि