पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ सस्याषाढविरचितं श्रौतसूत्र- [१ षष्ठप्रभे- माधनस्वमात्रमाह । किंवानुमन्त्रणे हुतं द्रव्यं द्वितीपानिर्दिष्टं स्तुतिस्तु सद्देवतानामा शीरथी दृश्यते तेभ्य एव फलशासनात्-भग्नेरहं देवयम्ययाऽऽनादो भूयास- मित्याहाग्नि देवानामन्नादस्तेनैवान्नाद्यमात्मन्धत्त इति ब्रह्मणे च । यद्यप्यन्नादौ द्रव्यस्य संस्कार्य[व]मपि संभाव्यते तथाऽपि न तन्मश्रप्रकाश्यत्वेनापि अपूर्वक्रिया- मंशभूतां प्रत्येव स्थानतु मन्त्रप्रतिपादनं प्रत्यपि । भाशीःपरत्वमतात् । तदभगेनैवा. र्थस्य संस्कार्यत्वोपपत्तेः । नतु प्राधान्येन । अत एव प्रवसतो यानमाने जपवदेवोप. स्थानादीनामपि स्वसंस्कारकर्मत्वेन तन्मन्त्राः स्वयमेव जपतीति वक्ष्यति । संस्कार्य यदि द्रव्यं स्यात्तदा परार्थानामध्वर्युकर्तृ[क]त्वेन प्रतिनिधिः स्यात् । न तान्यारा. दुपकारकाण्येवोपस्थानादीनि सन्ति न क्रियापराणि स्तुतिक्जपरूपाण्येव । ननु कथमत्र विशिष्टो जपो विधेय उपतिष्ठत इत्यादिषु अपत्वाप्रतीतेः । प्रतीतौ च न तृतीयानिर्दिष्टमन्प्रसंवन्धः स्यात् । उच्यते-उपान्मन्त्रकरण इति पाणिनिसूत्रेणोपति- ष्ठत इत्यात्मनेपदं विहितं मप्रसाध्यं करणं यस्य तत्कर्म मन्त्रकरणम् । उपपूर्वकस्ति- ष्ठतिः परिधानवाची मन्त्रोच्चारणं विधेयम् । अर्थप्रतिपादनं तु सामर्थ्यात् । अथवाऽर्थ. प्रतिपादनं विधेयमुच्चारणं तु सामर्थ्यादिति न्यायादन्यतरस्यैकस्य विधायकत्वे प्राप्ते नप एव सूत्रकारेण विधीयते । प्राथम्यात्पुरुषयत्नसाक्षात्साध्यत्वाच्च । प्रति. पादनं न साक्षात्पुरुषव्यापारेण शब्दव्यापारत्वात्सत्येवोच्चारणे साक्षात्पुरुषप्रयत्नसाध्ये विधिगोचरे सति पश्चात्प्रतिपादनपरम्परया पुरुषजन्यमर्थात् । अत एव सूत्रकृता संव- न्धार्थमेव मन्त्राणामुपदिश्यमानानां द्वितीयया निर्देशः कृतः । तत्र मन्त्रेणोपतिष्ठत इत्यत्र तृतीयाऽर्थप्राप्तप्रतिपादनसाधनतानुवादिकेति मत्वा मनामन्त्रस्य विषयत्वेन साधा. नत्वं विना याऽऽक्षिप्ता द्वितीयोपदेशे दर्शितोपरि(?) निति । भकथितं चेति सूत्रेणैव । विहिताऽपि । तथा चाप(?)उत्थायाञ्जलिपुटं कृत्वा मन्त्रं नपन्मन्त्रोऽङ्गवाचका(!) स्तुवन्नात्र प्रतिपादयेदिति । मन्त्रेणानुमन्त्रयत इत्यत्रापि द्रव्यमनुसंधाय मन्त्रं नपन्म. श्रेण द्रव्यदेवताः स्तुवन्नित्यादि समानम् । मन्त्रयतिधातुः स्वाभिप्रायाविष्करणप्रति- पादकवचने प्रसिद्ध उपसर्गभेदाद्विशिष्ट वर्तते । अभिमन्त्रयतेऽत्रापि अभिमुखो मृत्वा द्रव्यं पश्यन्मन्त्र जपन्मन्त्रेण द्रव्यमेव स्तुवन्नित्यादि समानम् । अभिमृशतीत्यत्रापि द्रव्यं स्पृशन्मन्त्रमुच्चारयन्मन्त्रार्थ मन्त्रेण स्तुवन्नित्यादि समानम् । सर्वत्र प्रत्यगाशीयो मुख्ययैव वृत्त्या यजमानस्य नपतेरुपतिष्ठत इत्यादीनां च जपवाचकत्वेऽपि शब्दान्तरे- रर्थभेदात्कर्मभेदो ज्ञेयः । यथा धात्वनुशासनसूत्रेषु यज दाने हु दाने डुदादान इत्यादिना समानार्थत्वविधानेऽपि रूढ्याऽर्थभेदादपर्यायत्वेन शब्दान्तरैः कर्मभेद एक- मत्रापि । तत्र यजत्यादिषु कृतमेव व्याख्यानं प्रथमे परिभाषापटले । तद्वतत्रैवोपतिष्ठत इत्यादीनामपीति युक्ततरं सूत्रम् । नपोऽपि श्रुत्यैवेति सर्वमतदातम् । चकार इति: करणस्य प्रत्येकसंबन्धार्थः। 1