पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१प्र०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५०१ पाणिनिना वक्ष्यमाणन्यायमूलमाश्रित्योकमैकश्चत्यमपि बाधितमिति जपे चातुः स्वर्यपपि सिद्धमस्याध्वर्युपाठेन । एवं च परिभाषिते यजमानकर्तृके जपे सति परिभाषितन्यायेन शब्दान्तरोधित कर्मभेदेष्वपि तत्तद्विधिविहितप्वपि केषुचिज्जपधर्म यजमानकर्तृकत्वं पातिदिशति-

तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमन्त्रयतेऽभिमृशति जपतीति च ।

मपतीति चेत्यन्तेन विधिनातेनोपदिश्यमानानपि प्रत्यगाशिषो मन्त्रास्तत्तदुपदिष्टविशे- घेण विशिष्ट कर्मान्तरविनियुक्तानपि तथा नपति यजमान एव । न तु तां कियां साधनत या तु तत्तद्वेदविहितया तृतीयया श्रुत्या भासमानानाप्युत्विाजपं प्रयुनते(?) । अत्र चातुःस्वयं- माशी परत्वेन यजमानकर्तृकत्वं चातिदिश्यते जपे विहिते यजमानकर्तृत्वमित्यर्थः । अयं भावः-पद्यपि चोपतिष्ठत इत्यादिना कर्मभेदोऽस्ति जपे तु प्रयोगभेदस्तथाऽपि न तेन तत्क- ममाधनतया प्रतीयमाना मन्त्राः प्रत्यगाशी:परत्वं जहति । क्रियामंशभूतां प्रति तृतीयया न साधनत्वमुच्यते किंतु प्रत्यगाशीःशासनं प्रत्येव प्राधान्यादंशात्तद्वारा तेषामकत्वात् । उपतिष्ठत इत्यादिना विशिष्टाभिधानेऽपि विशेषणांशानां क्रियारूपाणामपि मन्त्रोचार- णेन सहभाविनामयोग्यत्वान्न मन्त्रसाध्यत्वम् । नहि हस्ताञ्जलिकरणमुपस्थानेऽनुसंधानमः नुमन्त्रणेऽभिमुखीयाचनमभिमन्त्रणे हस्तेन स्पर्शनीममर्शने मन्त्रान्ते च क्रियते किंतु पूर्वमारब्धं सहमत्रोच्चारणेऽनुवर्तते तत्कयं मन्त्रसाध्यं स्यात् । मन्त्रैरप्रतिपाद्यत्वाच । नहि ताः क्रिया मन्त्रवर्णेषु दृश्यन्ते । तस्मान्मन्त्रप्रतिपाद्याशीःप्रतिपादनसाधनत्वेनैव तृतीयोपपद्यते । अर्थस्तुतिरवान्तरवाक्यार्थोऽयं स्तुत्वाऽऽशिषामाशासनं महावाक्याः । तदेव विधेयं मन्त्रप्रतिपाद्यत्वेन । स्तुतिस्तदङ्गमिति न तेन विरुध्यते तेन चात्र तेषां संस्कार्यत्वेन द्वितीयेति वाच्यम् । उपस्थाने तावद्वारवाद्यर्थानां द्वितीयानिर्दिष्टानामपि कर्मासमवेतत्वात् । भान्यादीनां कर्मसमवेतानामपि न संस्कार्यत्वं वैरूप्यापत्तेः । किंच तेभ्यः फलाशासनप्राप्तये तेषामर्थानामुपस्थानं स्तुतिरेव स्तुतिविषयत्वेन द्वितीया निर्दिष्टा । अपि च स्तुतिर्हि गुणकीर्तनं गुणिकर्तिनस्तोत्र शस्त्रवत् । उपस्थाने स्तुतित्वं स्पष्टमेव दृश्यते तेऽभिमस्तुवन्स एभ्यः स्तुतो रात्रियाः सोऽग्निमस्तौत्स एनः स्तुत इत्यादौ नाप्युपस्थानस्य स्तुतिरूपत्वेन स्तुतत्वात् । एतेष्वेवार्यवादेषु स्तुत्या फलप्राप्ति- मपि दर्शयति पशुनिराजत्ते देवाः पवित्वा कामा भकुर्वतेति । स एन५ स्तुतः सुवर्ग लोकमममयदिति । किंचाऽऽहिताग्ने राशीदग्निमुपतिष्ठत इत्यत्रापि चाऽऽशी:प- रमेवोपस्थानम् । तत्रार्थस्तुतिर नतु द्वितीयया गुणी प्रतिपाद्यभूतेन संस्कार्य तस्प्रतिपाद्यं च गुणाश्रयत्वेन नतु प्राधान्येन । एवमनुमन्त्रणादिष्वपि स्तुत्यत्वन द्वितीया नतु संस्कार्थत्वेनेप्सिततमत्वात् । किंवकथितं चेति विषयत्वेन