पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनियुक्त- ५०० सत्याषाढविरचितं श्रौतसूत्र- [६ षष्ठभे-- विहितास्वव प्रत्यगाशिषोऽपि मन्त्रप्साकाङ्क्षा लिङ्गेन तत्र क्रियाप्रति- पादनत्वलक्षणेन गच्छन्त्येव । प्रत्यगाशीलिंगं च विधिकल्पकमभिभूय श्रुति- विधेयक्रियामेव क्रियाप्रतिपादनलिङ्गेनाप्यकल्पनालाभाच्च न संनाथेम गच्छन्ति । पे त्वकर्म करणास्तेषां तूष्णीकाः क्रियाः प्रति गमने सामर्थ्य नास्ति । यद्यपि तदभावाकाङ्क्षास्तथाऽपि ते न केवलप्रत्यगाशीःपराः क्रियाया भप्रतिपा- दकाः कथं क्रियामभिधया प्राप्नुवन्ति । नचात्र वाह्मणविहितत्त्वमस्ति येन यथोपदिष्टं ब्राह्मणवन्त इति सूत्रेण लक्षणयाऽपि क्रियाप्रतिपादकाः स्युः । तस्मात्तेषा- मध्ययनविधिवलेन स्वसाध्यजपविधिकल्पकत्वमेव युक्तम् । नानुचारितस्य कर्माङ्ग- त्वमध्ययनविधिनाऽऽवे वितुं किंतूचारणेनोल्पन्नस्याभिव्यक्तस्यैव वा, इदानी दृष्ट चाप्त. मवति तदुचारणेन विधेयेन साक्षादपूर्वमेव वाच्यं संस्कार्यार्थस्याप्रतीतः । नच मन्त्र जपतीत्यस्ति द्वितीयानिर्दिष्टं संस्कार्यमिति वाच्यम् । मन्त्रस्यान्यत्र विनियोक्ष्यमाणत्वामावाद्वितीयया नेप्सिततमत्व किंतु कारकत्वमात्रमवगम्यने ह्याकरि चेति पाणिनिस्मृतेः । तस्मान्न द्रव्यमाने चादृष्टमाधेयशब्दापरपर्यायं मनयत्तद्वा- राऽपूर्वोत्पादक किंतु साक्षात्कलभोक्तार स्वामिन्येवौत्सर्गिक मन्त्रोच्चारणक्रिययाऽपूर्व जन्यते । वैधकर्मणां फलाशाप्तनं मुख्यं फलं स्वामिन्येव स एव मामिष्टमिदं भूयादिति कामयितुं योग्यो नविक् । तस्यान्यफलशासने यद्यपि यां कांचनाऽऽशिषमृत्विगाशास्ते तां यजमानस्येति तथाऽपि यजमानफलशासने मन्त्रवाच्ये मह्यमिदं भूयादिति गौणमेव । नचाभिधाबाधेऽन्यविनियोजकं प्रमाणमस्ति । समाख्यायास्तु लिङ्गेन बाधान्मुख्यवृत्त्या भोक्तवोच्चारणे कर्ता यजमानो यागेन फलं साधयितुं प्रवृत्तः फलापूर्वाश्रयत्वयो. ग्यमात्मानं दीक्षयेव करोत्यपूर्वेण संस्कृतम् । एवं च दीक्षणीयेष्टिवदेव नप. स्याऽऽरादुपकारकत्वेऽपि यजमानसंस्कारकत्वमुपपद्यते । स्वसंस्कारव्यतिरिक्त कर्मणि प्रतिनिधिः प्रवसतो यजमानस्यत्विग्वक्ष्यते । नपत्य संस्कारकत्वान्न तत्र प्रति- निधिरिति स्वस्यैव प्रवसतो जपो वक्ष्यते । तदेवं जपस्याऽऽरादुपकारकत्वे संपा- दित एवोपपद्यत इति युक्तमुत्पश्यामः । तस्मादृग्वेदादिप्तमाख्याप्राप्तात्वि. न्यबाधेन .. यत्र यत्र मत्रपाठस्तत्र तत्र कर्मसमीपे जपः कार्यः । द्रव्यप्रकाशनेन प्रत्यगाशीप्रार्थनं यत्र मन्त्रेषु स्यात्तत्र तत्र तत्तयजन्य क्रिययोपलक्षिते काळे कर्तव्यस्तत्तत्कर्माणतया । तत्र पाठादुत्कर्षोऽपि मन्त्रे वान्तर लिङ्गेनानुज्ञातः पाठात्तस्य प्रबलत्वात् । ये च क्रियाकरणद्वारा प्रत्यगाशी:परास्तत्र क्रिया विनाऽऽशी प्राप्त्यामावा. क्रियालिङ्कमेव . प्रबलं तेन तूष्णीकेषु प्राकृतेषुः तत्तत्विकर्मसु प्रत्यक्त्वमारोप्य गोण्याऽपि वृत्त्या प्रवर्तन्ते । ये प्रत्यगाशिषः श्रुत्या क्रियायां विनियुक्तास्तेषां लिङ्ग श्रुत्या सुतरां बाधितामिति गौण्या वृत्या क्रियापरत्वम् । तथाचानपन्यूज सामस्विति