पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सत्यापाविरचितं श्रौतसूत्र- [६ पप्रभे- आभार उच्चनीचते । एतेषां कत्वङ्मत्वावेदकं प्रमाणं नास्ति । यदि प्रकरणेनाशत्वं तदा वाक्यमेदः स्यात्सकृच्छ्रुतस्य वाक्यस्य । उदाहरति-

यथाऽऽघारस्योर्ध्वतायां नीचैस्तायां च ।

ऊर्धमाघारयेत्स्वर्गकामस्य न्यश्च वृष्टि कामस्येति यथा यजमान एव कामयते तथा थान्कामयेत यजमानान्समावत्येनानिति व्याहृतिविधाने स्थान विशेषलक्षणो गुणो यश. मानफळा विधीयमानो यजमानेनैव कामयितव्यः संकल्पनेत्यर्थः । एतत्सूत्रे नियमविधानेन फलितां परिसंख्यां दर्शयति-

अर्थवादा इतरे ।

आधारस्येत्यनुकर्षः । आचारगतगुणविध्यर्थवादा इतरेऽनन्यथासिद्धया श्रुत्यैवाऽऽ. वेदितार्थप्रापका विध्युद्देशान्तर्गतास्तेऽतोऽन्ये वाक्यशेषा विध्यदेशानन्तर्गताः सन्तः पृथगपि वाक्यार्थ प्रतिपादयन्तो वाक्यैकवाक्यतां गच्छन्तोऽर्थवादाः स्तायका न फल. प्रापका इत्यर्थः । ब्रह्ममीमांसकानामिव वाक्यैकवाक्यताऽर्थवादानामिष्टा सूत्रकृतामवा- न्तरवाक्यार्थेऽपि प्रामाण्यस्वीकारातत्तु(नतु)नैमिनीयानामिव पदैकवाक्यता । यथा संततमाघारयतीत्यत्र प्राणानामन्नाद्यस्य संतत्या इत्येवमादयोऽर्थवाद आधार- पोस्तथाऽन्येष्वपि नियतेषु यज्ञाङ्गेषु प्रकारान्तरसिद्धा अर्थवादा एवेत्याह-

तथान्येषु यज्ञाङ्गेषु पुरीषवतीं करोति प्रजयैवैनं पशुभिः पुरीषवन्तं करोति यद्यूपं मिनोति मुवर्गस्य लोकस्य प्रज्ञात्या इषे त्वोर्जे त्वेति शाखामाच्छिनत्तीषमेवोर्जं यजमाने दधातीति ।

शाखान्तरीय वाक्यम् । इनीति नानाप्रकाराणामर्थवादानां पूर्वदर्शितानां ग्रहणार्थम् ।

द्रव्यप्रकल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्यं जपाश्च ।

याणाङ्गभूतं द्रव्यं सिद्ध नात्यादिना पश्चादकत्वेन तत्तद्वेदविहितमपि नस्विम्मिः संकरप्यं तत्। नहि तत्र तत्र वेदे संपादन विधीयतेऽपि तु सिद्धस्याङ्गताऽतो द्रव्यप्र. कल्पनं पूर्वमर्थसिद्धं तत्तु स्वार्थसिद्ध्यर्थ यजमान एवं कुर्यात् । नहि त ऋत्विनो दक्षि. णालोभेन प्रवृत्ताः स्वयं व्ययं कर्तुं प्रभवन्ति । अत आज्यत्रीहिपशुतण्डुलगोनावादीनां संपादनं यानमानं मनमानः स्वद्रव्यत्ययेन साक्षाद्वाऽन्येन वा संपादयेत् । अत्र पजन मानप्रणं पुनः संकल्पे प्रवर्तमानस्य द्रव्यप्रकल्पकत्वं मा भूकिंतु संकल्पापूर्वमेव यक्ष्यमाणस्येति । पजमानपदं द्रव्यप्रकल्पनपदेन न संबद्धमिति पुनरागमैरेव संबन्धो . १५. झ. म. या नित्येषु।