पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह प्र.पटळ:] महादेवकृतवैजयन्तीब्याख्यासमेतम् । बोधितानि फलान्येव न सा श्रुतिरपवाद एवाननेष्वपि च किं वक्तव्यं यानि फलं विना नानुष्ठेयानि तत्रार्थवाद एवाननुष्ठानलक्षणमप्रामाण्यं स्याद्विधेः । तस्माद्भयत्रापि नार्थवादता किंतु फलार्थ तैव । अत्र कामयतिरू(रु)पलक्षणमिच्छाविषयत्व(स्वे) नार्थप्र. तिपादकानां शब्दानाम् । बुभूषति] तितीपत्यनयोः साक्षादेकार्थकत्वात् । इतरार्थनं. प्रत्ययस्यापि समानार्थत्वात् । अभिचरन्नामयाच्यादिशब्दानामनिष्टार्थानामपि विधिषु न श्रुत्यावेदितार्थस्यापूर्वस्येष्टस्य साध्यस्याऽऽवेदकानामिच्छाविषयत्वं विना सांध्यत्वा- संभवादवश्यमांक्षिप्तेच्छाविषयत्वमपि वोधयतामुपलक्षणम् । तान्यङ्गानङ्गफलानि यन. नस्य कर्मणां स्वतन्त्रकर्तुरेव । तथाऽप्यध्वर्यादिकामना श्रूयते तथाऽपि नावदियः स्वार्थतया साधयितुमीशते शास्त्रफलं च कर्मणां स्वतन्त्रकर्तुरेवेति न्यायात् । नह्यनेन प्रवर्तितस्य कर्मणः फलमन्यस्य स्यात् । यदप्यन्यस्य प्रपाप्रवर्तनादिषु कर्मसु तृप्तिः फलमन्येष्वप्यस्ति तथाऽपि न तद्विधिफलम् । किंतु तदानुषङ्गिक विधिफलं करेवेति न व्यभिचारः । तथा च यान्कामयेत यजमानानिति तथा यं कामयेत सर्वमायुरियादिति पनमानकाम्यमेव फलं नाध्वर्युकाममनिच्छतो यजमानस्य फलं स्यात् । एवमृत्विनामपि क्वचित्वकामनाविषयत्वेन स्वफलता दृश्यते । तत्रापि यदि यजमान एवानेन कर्मणा म विनां फलं भूयादिति कामयते तदैव नान्यदा । तदेतत्स यानीत्यनेन दर्शितम् । तथा यं कामयेत प्रमायुकः स्यादित्यादेरपि न फलपरता मानत्वाभावात् । अध्वर्युणाs. निष्ट काम्यमानमपि न यजमानप्रयुक्तेन कर्मणा भवतीत्युक्तम् । यथा यजमानायानिष्ट कामयते तागेवेति । तथा न कार्यमित्यर्थवादः । यत्र तु कामनाप्समानार्थपदैरबोधितं तत्काम्यमानमपि नाङ्गफलमित्यपि कामयतिरित्यनेनोक्तम् । श्रावयतीत्यनेन कामादि. पदनोभितमपि यद्यभिधया न प्रतिपाद्यते फित्वन्द्यतेऽभिधायाः पदान्तरेण प्रतिबन्धात् । तत्रापि न फळताऽपि त्वर्थवाद एव । यथा त्रिष्टुभा परिदध्यादिन्द्रियं वै त्रिष्टुगिन्द्रि- यकामः खलु वै राजन्यो यनत इति तथा जगत्येत्यपि । अत्र खलुनैपदानां हेतुत्वे- नामिधाप्रतिबन्धादनुवादेनार्थवादीव । यदि कामयेत ब्रह्मवर्चसमस्त्विति गायत्रिया परिदध्यादिति फलपरतवात्र नार्थवादता । अत्र फलवन्त्यनानि क्रियानातिद्रव्यगुणाः । क्रिया तावत्-भाधानेऽग्नये मगिनेऽष्टाकपालेष्टिः । सा नित्या च काम्या च । तथा राका सिनीवाली पत्नीसंयानभागौ । जातिर्यावत्पालाशं ब्रह्मवर्चतकामस्य यूपं कुर्यात् । द्रव्यमपि-द्रव्यमग्निहोत्रहोमे पयः । गुमः-यूपे त्रिरस्निपञ्चारस्नित्वं च । एषां संयो- गपृथक्त्वन्यायेन यागाङ्गता । तथाऽनङ्गान्यपि क्रत्वाश्रितानि चतुर्धा कुड्यागः पत्नीसंयानेषु । जातिः-यदि कामयेत ब्रह्मवर्चसमस्त्विति गायत्रिया परिदध्या- दिति परिधानी[या]यां गायत्रीत्वम् । द्रव्यम् –कांस्यमृन्मये प्रशयनाश्रिते । गुणः- १च. ट. तयाऽपि । ६२