पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- [६ षष्ठमने- यथा लोके राजादिः संकल्पमात्रेण राज्यं भुङ्क्ते प्रेरित राज्यग्रहणाय प्रधानादिभिः कृत. ग्रहणमपि विहितेष्वपि देवताप्रतिष्ठादिपूर्तेषु प्रतिष्ठाप्रधानेषु त्यागासंभवाद्रुमपादावपि तधात्वात्संकल्पमात्रेणविकृतस्य प्रधानकर्मणो यजमान एवापूर्वमेव तस्य फलं च भव- तीति न किंचिदनुपपन्नम् । एवं वा सूत्रयोजना-समस्ते साझे कर्मक्रतौ यो यक्ष्य इत्यनुवादेन वचनाभिनयेन चोनीतेन यक्ष्य इति संकल्पे यद्यपि फलं तथाऽपि विधि- वाक्ये कतौ श्रूयमाणं यजमान एव कामयतेऽनेन यश्य इति वाक्य इदमनेन फलं कामय इति वाक्यशेषण कामयते । तस्माद्यज्ञारम्प एवानेन कर्मणा यक्ष्ये यावज्जीवमित्यादि यथासंभवमुक्त्वाऽनेन निःश्रेयसं कामय इत्यादि तत्तत्कामनानुसारेण वदेत् । यथोक्त- मापस्तम्बेनापि क्रत्वादी कतुकामं कामयेत यज्ञानादौ यज्ञाङ्गकाममिति । समस्ते साङ्गेऽपि ऋतौ साध्यत्वेनेष्टं श्रावयेदित्युक्तं तच्च यज्ञारम्भे प्रधानफलमकारम्भे चाङ्गफल- मित्युक्तं भवति । ननु नियतेष्वङ्गेषु विधिश्रुतिमात्रेण न फलं निःश्रेयस कल्प्यं नापि रात्रिसत्रन्याये. माऽऽर्थवादिकम् । नापि विश्वजिन्यायेन स्वर्गफलम् । किंतु नियताङ्गानि प्रधानेन स्वफलसियर्थ कर्थभावाकाक्षिगृहीतानि न पृथक्फलाकाङ्क्षाणि तथाऽपि अत्या कामपदवत्याऽनन्यार्थया च यत्रापि फलमङ्गेष्वनङ्गेषु चास्ति तत्रापि कामना कचित्विनिष्ठाऽपि श्रूयते तत्र किमृत्विनां फलमथवा यजमानस्यैव । यजमानफलेऽपि संकल्पोऽत्रविजां यजमानस्येति निर्णयार्थमाह-

तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयति ।

तुशमेनोत्सर्गबाधो न सर्वत्रा वर्थवादैः फलफसना । नाप्यनेषु फलश्रुतिरर्थवाद एवेति । किंतु नित्येषु फलनिरपेक्षया विधिश्रुत्या फलवत्प्रधानाङ्गेषु तथा निय- तेषु फलामावेऽपि नियमेनानुष्ठेयेषु यज्ञाङ्गेषु यज्ञफलवत्तया फलवत्सू । ननु किमयं नित्येष्विति यज्ञाङ्गेषु हि नियमेनानुष्ठानं तद्यज्ञानग्रहणेनैव सिद्ध- मिति चेत् । न । वैकल्पिकं यत्राङ्गमस्ति तथाऽतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति पाक्षिके षोडशियागे फलार्थतयैव प्रवृत्तिर्नान्यथा यज्ञस्य तेन विना ह्यवैगुण्यात् । तस्माद्वैगुण्यपरिहारार्थमनुष्ठीयमानं निस्पमित्यर्थः । तेष्वप्यन्य- तःसिद्धस्य स्थानेष्वपि यानि चार्थरूपाणि स(पू)सूत्रेऽर्थमिति पदं व्युत्पन्नमर्यत इति फलमुक्तं तत्र नपुंसकनिर्देशेन जातिवाचिनोपदिष्टस्यान्न(ब) व्यक्तिवाचकेन बहुवच- नान्तेन नपुंसकलिङ्गेन परामर्शो यानीति । यान्यर्थमानानि पुरुषेण नित्या साध्यानि कामयतिर्धातुः श्रावयति अभिधयैव बोधयति तान्येवाङ्गफलानि नान्यानि तान्येव यनमान एव कामयते सर्वानुषङ्गः । अयमभिप्रायः-यज्ञाङ्गेवपि श्रुत्याऽनन्यपरया १. च.ट, ठ, "स्ति या।