पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। न १प्र०पटळ: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । सा वस्तु सौन्दर्यज्ञानादेव जायते नतु विधिना । विधिहि न फले प्रवर्तकः । अत एव फलांशे भावनायास्तु प्रत्ययो न विधायक इत्युक्तं तस्मात्फलसाधने विधिरिति वाच्यम् । तत्र वाचिको यः कामाभिनयोऽप्राप्तः स एव कामयतो विहितोऽतो यनमान एवे. त्ययं नियमोऽपि युज्यते । नानावेदगतं फलं तथाऽपि नस्विग्भिः संकल्पनीयं समा- रूयाया बाधात् । अत एव यो यक्ष्य इत्युक्त्वेत्यत्राऽऽत्मनेपदं श्रूयते । उक्त्वेत्यनेन संकल्पस्य वाचिकत्वमुक्तं तदेव प्रथमं यजमानकर्म श्रुत्यैवोक्तं पुरुषरूपप्राप्तं तेन यज्ञे प्रवर्तमानत्वेन यजमानो नत्वनारब्धयज्ञो यजमानः स्याकिंतु यक्ष्यमाणः । अतोऽनेन यज्ञेन यक्ष्य इति कृतवाचिकसंकल्पोऽङ्गप्रासमानो येन ऋतुना यक्ष्य इति कृतसं- कल्पः । तत्र श्रूयमाणं फलमपि कामविषयत्वेनानुवदेदमुकाम इति तद्वाक्यशेषत्वेना- न्यथा सिध्यतः फलस्थानन्वये संकल्पवाक्यमसमर्थ स्यात् । यागेन भावयिष्य इत्युक्ते किमित्याकाक्षा जायते तत्पूरणायामुककाम इति वक्तव्यमित्यर्थः । अत एवान्यफ- लकर्मणि चविक त्वविधानाय यजतीति परस्मैपदनिर्देशो नहि प्रयत्नपरिस्पन्दाश्रयत्व . मात्रेण मुख्य कर्तृत्वं संभवति । स्वतन्त्रः कर्तेति पाणिनिस्मरणात्स्वातन्त्र्यं भोक्तरेष मुख्यं तत्प्रेरितेषु तु स्वातन्य गोगं विवक्षित दर्शयितुं यतीति परस्मैपदप्रयोगः। सूत्रकृताऽप्यूग्वेदेन होता करोतीत्यादौ परस्मैपदप्रयोगेणान्यप्रेरितत्वं दर्शितं, नहि परार्थफले कणि परेणाप्रवर्तितः प्रवर्तते । ननु स कथं फलभोक्ता स्यात्प्रधानकर्मणोऽ. कर्ता यतो नच वैदिक कर्मणि स्वातन्त्र्यमात्रेण कर्तृता । तथा च जैमिनिः पूर्वपक्ष- सिद्धान्तावाह शास्त्रफळ प्रयोक्तरि तल्लक्षणात्वादिति सूत्रेण । सर्व कर्म फलमोक्त्रैव कर्तव्यमिति प्रा(त्यभिधा)य राद्धान्तितम्- उत्सर्गे वा प्रधान स्यादिति । सर्वस्य सास्य कर्मणो हि अविसाध्यत्वेऽपि यागमात्रप्रधान तत्पल्या कर्तव्यमेतावता तत्फलप्राप्तिः । अत एव कात्यायनः-प्रधानस्वामी फलभागादिति । तेनापि द्रव्यदे. बतात्यागो याग इत्युक्तम् । तस्मात्प्रधानमात्रकर्तृत्वेन कर्मफलं तस्येति युक्तम् । भव- पक्षे तु त्यागप्रधानता प्रथमपटले निराकृता । प्रधान यागो होतृकतृको होमोऽ. ध्वर्युकर्तृक इति होतृकर्तृक इति स्थितं स्वातन्त्र्यमात्रेण कर्तुः कर्मफलं स्यादिति चेत् । उच्यते--यः प्रधानस्य कर्ता सोऽङ्गानामिति परिभाषितत्वाबागस्य प्रधा- नस्य यनमानकर्तृकत्वे तु पनमानकर्तृकत्वमङ्गानामपि स्यादिति समास्याभिर्न- स्विकर्तृताऽपि स्यात् । अतो न प्रधानकर्ता यनमान इष्टः सूत्रकृता । तस्माद- न्यतोऽप्रवृत्तः फलाय संकल्पेन प्रवृत्त एव स्वतन्त्रः कर्ताऽन्यो नेति सूत्रतात्पर्यम् । नचान्येन कृतस्यान्यः फलभोक्ताऽतिप्रसङ्गापत्तेरिति वाच्यम् । यथा यजमानेन त्यागे कृते प्रधाने यनमानपत्न्या अपि फलम् । तत्केन हेतुना संकल्पनेति वाच्यम् । तत्राऽऽपस्तम्बसमाधिरिति समः समाधिविधिः । यथाऽङ्गेषु कर्तुरन्यस्मिन्नपि यज. मानेऽपूर्वमुत्पद्यते तद्वत्प्रधानं पूर्वमपि संकल्पकर्तर्येव स्यात्तत्फलं चेति नातिप्रसङ्गः । -