पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ सत्यापाविरचितं श्रौतसूत्र- [६ षष्ठप्रश्ने- प्रतिज्ञाकरणं तावदादौ सर्वस्य तन्यते । हपियज्ञे दर्शपूर्णमासादौ तन्निरूप्यते ॥ ८ ॥

याजमानं व्याख्यास्यामः ।

यद्यपि पन देवपूजासमतिकरणदानेवितिधात्वनुशासनसूत्रेण यती पूजाद्यर्थस्य लटः शतृशानचाविति सूत्रेण लडादेशशानच्प्रत्ययान्तत्य व्युत्पत्त्या यजमानशब्देन देवपूनादिकर्मणः कर्ताऽऽत्मनेपदार्थाच्च फलभोक्ता प्रतीयते तथाऽपि याग(यो) रूढया पविक्साध्ये कर्मणि फलमोक्ता यः स एव प्रतीयते । पूर्तेषु यजत्यर्थेष्वपि यजमान- शब्दप्रयोगात् । देवपूजाकर्तर्यदर्शनाच्च । तस्गादक्षिणा प्रवृत्तत्विकर्तृके कर्मणि यः फलभोक्ता स एव यजमानशब्दवाच्यः । नच कर्ममात्रफलभोक्तरि दृश्यते प्रयोग उपनयनादिषु सामयाचारिकेष्वपि च फलभोक्तरि प्रयोगाभावात् । तयोः फलमोक्त्रोः कर्म तद्यानमानम् । पत्न्या अपि फलं भोक्तृत्वस्याऽऽधानप्रश्ने निरूपित्तत्वात् । यद्यपि तत्तदविहितानि वैतानिकानि होतवेदादिसंज्ञामिहोत्रादिनियतकर्तृकाप्येवेति स्था- पितं तथाऽपि विशेषप्रमागस्तद्बाधेन दंपत्योरपि कचित्कर्तृत्व प्राप्तं तन्निरूप्यत इत्यर्थः । तत्र फलप्रापकं यजमानमात्रानुष्ठेयं प्रमाणमाह-

समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते ।

समस्ते नियतेऽनियते च साङ्गे कतौ क्रतुशब्दपुरस्कारेणविग्विधिभिविहितात्विक र्तृके कर्मणि । दर्श पूर्णमासयोश्चत्वार स्विज इत्यादिनाऽग्निहोत्रस्य यज्ञक्रतोरेवमन्तेन दर्शपूर्णमास चातुर्मास्यपश्वग्निहोत्राणामक्रतुरूपाणामपि क्रतुशब्देन गौणेनाप्युपात्ताना- मिह ग्रहणं, ज्योतिष्टोमस्य तु मुख्यत्वेनोपात्तस्य यागविशेष एव सपशुके सोमाख्ये ऋतुशब्दो यातिकप्रसिद्ध्या रूढो वेदे च वाजपेये सर्वे यज्ञकतवोऽवरुध्यन्त इत्यादी बतोऽन्यत्र पञ्चमहायज्ञेषु यज्ञसत्रशब्दवद्गौणः । प्रकृते मुख्यमात्रग्रहणे हविर्यज्ञयाज. मानकर्मविधानं विरुध्येत तस्माङ्गोणमुख्यानां ग्रहणम् । यज्ञं व्याख्यास्याम इत्यत्र विधिल- क्षणानि कर्माणि कर्ममिनिःश्रेयसमित्यादौ च प्रयुक्तयज्ञशब्दकर्मशब्दावपहाय ऋतुशब्द प्रयुञ्जानेनाऽऽचार्येणविक्साध्यान्येव कर्माणि क्रतुशब्देन गृहीतानीति गम्यते । अर्थ ममेदं भ्यादित्यध्यते तदर्थ फलमिति यावत् । कतौ प्रयोजनतया साध्यत्वेन प्रयोजकोऽर्थः । तं क्रती साध्यं विधिश्रुत्येष्टसाधनयोग्यपरया नियतेषु निःश्रेयसलिङ्गसहकृतया विश्व. जिदादौ स्वर्ग रात्रिसत्रादौ प्रतिष्ठादिकं कामादिपदवद्वाक्यसहकृतथा व वायव्यर श्वेतमालभेत भूतिकाम इत्यादी भूत्यादिकमर्थत्वेनाऽऽवेदितं यजमानः कामयते । नच वर्तमानापदेशादनुवादः कामस्येति वाच्यम् । निष्प्रयोजनवादानर्थक्यमेव स्यात् । तस्मा- कामयतेति विधौ प्रयोगोऽप्राप्तत्वात् । नच फलकामनायां विधिरस्ति । कामनेच्छा