पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । चातुर्मास्यानां द्विरावृत्तिः सर्वेषां भवति संवत्सरद्वयेन पुनश्च वैश्वदेवपर्वमात्रं चातुर्मास्यमध्ये भवति । तत ऊर्ध्वमाषाढमासो भवति तस्मिन्प्राप्ते वरुणप्रधासैन यष्टव्यं तं मासमतिक्रम्य श्रावण्यां वरुणप्रघासैर्यष्टव्यं चैयामुएकमे तु संवत्सरत्रयमभ्यस्य पुनश्चैयां वैश्वदेवेनेष्ट्वा श्रावण्यां वरुणप्रयासरेवं चैत्रमारभ्यर्तुत्रयं भाद्रपदे भवति ततो मासमतिक्रम्य कार्तिके साकमेधैर्यजेत् । अनेन प्रकारेण पञ्च संवत्सरान्यजति । ततोऽपि फलभम्नो द्विस्त्रिी पञ्चसंवत्सराणि चातुर्मास्यानि यनेत । तथा च पञ्च दश पञ्चदश वा त्रयः प्रयोगा विकल्पेन भवन्ति । अभ्यासः प्रश्नसमाप्त्यर्थः । इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवै. जयन्त्यां पञ्चमप्रश्ने शुनासीरीयः षष्ठः पटलः ॥ ६ ॥ इति हिरण्यकशिसूत्रव्याख्यायां महादेवकृतयां प्रयोगवैजयन्त्यां पञ्चमश्चातुर्मास्यप्रश्नः।

6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।) । ऋग्वेदायुपविष्टेषु सानकर्मसु कर्तता । होत्रादेः परिभाष्यायाध्वयोर्याजुषकर्मसु ॥ १ ॥ निरूपिता ब्रह्मणोऽपि हवियज्ञेषु तेषु तु । प्रधानकर्तृदंपत्योः फलाप्राप्ति निवारयन् ॥१॥ संकल्पादेव कर्तृत्वमनयोर्मुख्यमादिशन् । फलं च सर्वकर्मस्वत्रैवान्यच्च प्रसङ्गतः ॥ ३॥ किंचिद्युक्त्वा हविर्यज्ञयाजमानं सविस्तरम् । होत्रादिवेदसंज्ञाभिर्विहितेष्वपि कर्मम् ॥ ४ ॥ होत्रादिकर्तृनियमापवादेन निरूप्यते । लिङ्गाद्वाक्याद्विशेषाभिधानाच्छ्रुत्या च बाधने ॥५॥ सन्ति सामान्य संज्ञायाः षष्ठे प्रश्ने प्रतिज्ञया । अवैतानिककर्माणि सब्रह्माण्यपि चविनाम् ॥६॥ साध्यानि तेषु चोत्सत्किर्तृगामि फलं स्थितम् । न्यायवैदग्भ्यविज्ञेयं याजमानमितीरितुम् || ७ || २