पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[६ पञ्चमप्रश्ने- Lic - ४९२ सत्याषाढविरचितं श्रौतसूत्र- चतुर्दश्यामेव शुनासोरोयेण यमेत ततः फाल्गुन्यां पुनःप्रयोगश्चातुर्मास्यानां चैव्यां प्रथमोपक्रगे तस्या अपि फाल्गुनीत्युपलक्षणं सर्वमेतत्कात्यायनेन स्पष्टीकृतम् । सोमोऽग्निष्टोमः।

सोमाभावे पशुना।

अशको पशुना निरूढकल्पेनानन्तरे पर्वणि ।

पश्वभावे पुनःप्रयोगश्चातुर्मास्यानाम् ।

इष्टिरप्युक्ता कात्यायनबौधायनाश्वलायनैः । तदकरणे पुनःप्रयोगः । तान्यकृत्वैव पुनःप्रयोगोऽभ्यास इत्यर्थः । ततोऽपि सोमेन पशुना वा समाप्तिः । इष्टिराग्नेयी कात्यायनीयानाम् । अन्यैः सवनेष्टिरित्यक्तम् । आग्नेयोऽष्टाकपाल ऐन्दाग्न एकादश- कपालो वैश्वदेवो द्वादशकपालो वैश्वदेवश्रुर्वा समानतन्त्रा मिन्नतन्त्रा वैका । नित्यानि चातुर्मास्यानि उक्त्वाऽन्यान्याह-

वैश्वदेवेन पशुकामो यजेत यस्मिन्नस्य वसन्ते भूयिष्ठं पयः स्यात् ।

यस्मिन्वसन्ते यजमानस्य गोषु विपुलं दुग्धं भवति तत्रोपक्रमः ।

वैश्वदेवेन पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् ।

सहस्राशुप्राप्तिपर्यन्तं वैश्वदेवपर्वणि वैश्वदेवेनैव पर्वणाऽभ्यासः ।

प्राप्ते सहस्रे स्वस्थानैरितरैर्यजते ।

वरुणप्रवासकाल आगते वरुणप्रघासैरेवमितरैः सोमः पशुर्वाऽन्ते ।

शुनासीरीयेण यजेत ग्रामकाम प्रजाकामः पशुकामो वृष्टिकामोऽन्नाद्यकामो वा वर्ण्यमुदकमन्ववसाय तत उदकार्थान्कुर्वाणः ।

वर्षीसु भवं वर्ण्यमुदकं यत्रास्ति तत्रं गत्वा यनते तस्मादेवोदकाढुदकप्रयोजनम् ।

पञ्चसंवत्सराणि व्याख्यास्यामस्तन्त्रं पञ्चहोता वैश्वानरपार्जन्यौ च फाल्गुन्यां प्रयुज्य द्वावृतू संवत्सराविष्ट्वा तृतीयस्य मासं न यजेत चैत्र्यां तु प्रयुज्य त्रीनृतून्संवत्सरानिष्ट्वा चतुर्थस्य मासं न यजेतैवं विहितं द्व्यवरार्ध्यं त्र्यवरार्ध्यं वाऽभ्यस्येदभ्यस्येत् ।। १८ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने षष्ठः पटलः ।। ६ ।।

इति हिरण्यकेशिसूत्रे पञ्चमः प्रश्नः ।। ५ ।।

पञ्चसंवत्सराणि पश्च संवत्सराः कालो येषां चातुर्मास्यानाम् । अयं प्रयोगो नित्यानां काम्यानां च फलभूयस्त्वकामनया स्यात् । तमेकारम्भत्वात् । प्रथम एव प्रयोगे पञ्चहोत्रादि । यदा फाल्गुन्यामुपक्रमस्तदा चाऽऽवृत्त्या द्रावृत् संवत्सराषिष्टा