पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५ पञ्चमप्र- सत्याषाढविरचितं श्रौतसूत्रं-

प्रत्येत्याऽऽदित्यं घृते चरुं निर्वपति ।

नम्यागन्यायिकवकल्प इति भरद्वाजः । तत्राऽऽदित्यमेव चरुमित्युक्तम् । अतोऽ. दितिर्देवता । तथा सप्तदश सामिधेन्यः । इदाभागः सर्वोऽपि ब्रह्मण एव । चतुर्धाकरणे- विदं ब्रह्मण इत्येव । सर्वेऽपि भागा ब्रह्मण एवेति पूर्ववदित्यापस्तम्बः । प्रत्येत्यतिव- चनात्व्यम्बकाङ्गमिष्टिरियम् । संतिष्ठन्ते ऽयम्बकाः ।

श्वोभूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दन्ति । यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीरग्निरीशान ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।। १६ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने पञ्चमः पटलः ।। ५ ।।

गतार्थम् । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज यन्त्यां पञ्चममश्ने त्र्यम्बकः पश्चमः पटलः ॥५॥


5.6 अथ पञ्चमप्रश्ने षष्ठः पटलः

ततो द्व्यहे त्र्यहे चतुरहेऽर्धमासे मास ऋतौ चतुर्षु वा मासेषु शुनासीरीयेण यजते तस्य वैश्वदेवेन कल्पो व्याख्यातः पञ्च संचराणि निरुप्यैन्द्राग्नं द्वादशकपालं निर्वपति वैश्वदेवं चरुमिन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालं वायव्या- यवागूः प्रतिधुग्वेन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमुत्तममेके समामनन्ति ।

यहाद्यतीते पर्वणि प्रथोमो वचनाच्छु नासीरोपलक्षितत्वाच्छुनासीरीय कर्म, उत्तर- वैदेरभावाद्वैश्वदेवेनेत्युक्तम् । गतार्थम् । वायव्यपयसः स्थाने वायव्या यवागः प्रति- १ ख, ग, घ... प. म. म. ट, ठ, द, दमास्येवो ।