पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. श्तृ पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । .९३ क्तम् । हुत एव दोहारम्भोऽन्यथा मा भूदिति । हुते यजमानेनेति दर्शयितुं त्वाप्रत्ययो न प्रयुक्तो हुत्वेति ।

द्वंद्वꣳ सांनाय्यपात्राणि प्रक्षाल्य न्यञ्चि प्रयुनक्ति ।

स्थापयति द्वंद्व द्वे द्वे संभरति सह, सायंदोहपात्राणीति वक्तव्ये सांनाय्यपात्रा. णीति सामान्यनिर्देश उभयत्र पात्रेषु समानधर्मता यथा स्यात् । प्रक्षाल्याद्भिश्चि अधोबिलानि बिलवन्त्युत्तरेण गार्हपत्यं दर्भान्सस्तीर्येति सूत्रान्तरे दर्शनात्तत्रैव कार्य- मासादनम् । तान्येव दर्शयति-

अग्निहोत्रहवणीमुखामुपवेषꣳ शाखापवित्रमभिधानीं निदाने दोहनमयस्पात्रं दारुपात्रं वा पिधानार्थम् ।

अष्टावत्र पात्राणि पिधानार्थपात्रयोरन्यतरस्यैकस्यैव ग्रहणात् । एकैकविमक्तिनि. दिष्टमेकैकं निदाने द्वे अपि एकविमक्तिनिर्देशादेकम् । अग्निहोत्रहवणीमिति व्युत्पन्नः । उपवेषं शाखापवित्रमिति शब्दसंस्कारनिमित्तौ । व्युत्पन्नो दोहनमिति । उखाभिधा- न्यादिशब्दास्तु जातिनिमित्ता एव । उखा मृन्मयं पात्रमभिधानी गोबन्धनार्या रज्जु. · निंदाने पश्चिमपादयोरधस्तादुपरिष्टाच्च बन्धन्यौ रज्ज्वावथवा धेनुविषाणयोर्वत्सस्य च बन्धन्यौ । दोहनं दुह्यतेऽनेनेति यस्मिन्वा तदोहनपात्रमायसदारुमयपात्रयोरापिधा- नार्थयोर्विकल्पः । एतानि यथावत्प्रयुनक्ति ।

समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति ।

सामान्यप्रतिज्ञयम् । समौ वर्णरूपाभ्यां प्रादेशमात्राविति परिमाणस्य विधानात् । एतादृशौ यो दौं तौ पवित्रे पवनयोग्यौ संस्कारैः करोति। पवित्रशब्दो यद्यपि विशे- प्यलिङ्गोऽप्यस्ति तथाऽपि पवनसाधने नपुंसक एव दृश्यते द्विवचनं तूभृतावयवत्वात्। आचारप्राप्तग्रन्थिकरणं श्रौते कर्मणि दुर्लभमेवाविधानात् । अच्छिद्रणेति लिङ्गं च द्वयो. य॑वधि निवारयति । तेनाऽऽौं कृत्वा श्लिष्टौ कार्यों । कथं करोतीत्यपेक्षित आह-

पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनात्विति तृणं काष्ठं वाऽन्तर्धाय छिनत्ति ।

दर्भावग्रे प्रादेशमात्रमवशेषयित्वा( प्य ) तत्र तृणं काष्ठं वा व्यवधायः तदुपरि छिनत्ति दर्भावपि च्छिन्नौ यथा स्यातामिति । छेदन एव मन्त्रः । अप उपस्पृश्य । तत्तु नखव्यतिरेकेणान्येनोपायेन न तु नखैरित्याह-

न नखेनेमौ प्राणापानौ यज्ञस्या