पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.९२ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमपन्ने- च्छन्ति । न चेन्द्रपदविरोधस्तस्यै पदस्यासमवेतार्थप्रकाशकत्वात् । तस्मान्न महेन्द्रपद- वान्मन्त्रोऽपि मृग्योऽत्र । तन्न । मन्त्रत्वसांनाय्यमन्त्रपाठसंदंशमध्यपठितत्वेन सानाय्य. प्रयुक्तशाखानुनिष्पादिन्येव मूलमागे न तु काठान्तरकृते सूत्रकृताऽपि तमुपवेष करो. तोति पदेन प्रासङ्गिकत्वमुक्तम् । ग्रणेन संकल्पेन वा मन्त्रन संस्करोति भाव्युप- योगाय न शाखाहरणप्रयुक्तमन्त्रः । तदभावे च नास्ति । तथाऽपि काष्ठमात्रं तु युज्यत एवाङ्गारानेर्हरणार्थम् । तदाह भारद्वाजः-चोद्यमाने कर्मणि द्रव्यमुत्पादयद्य- था पौर्णमास्यामुपवेष इति । भाष्यकृत्पूर्व परिवासितस्य पुनः परिवासनायोगान्मन्त्रेण करणमुपादानमात्रमित्याह ।

तस्यां त्रिवृद्दर्भमयं पवित्रमविदलं करोति ।

सामान्यप्रतिज्ञेयम् । तस्यामग्रमागेन(ग) विद्यमानायां शाखायां त्रिवृत्रिमिदमः कृतं दर्भमयं पवित्र पयःपवनयोग्यमविदलमविलग्नान्यसंश्लिष्टानि दलानि यस्य तत्तथा । अत्र त्रिवृदादिगुणयुक्तं पवित्रमादौ पृथगेव तूष्णीं करोतीति वाक्यार्थः । तस्यां मूले मूलमुपसूनतीत्यन्वयः । अत एवाऽऽपस्तम्बः-त्रिवृद्दर्भमयं पवित्रं कृत्वा बसूनां पवि- त्रमीति शाखायां शिथिलमवसृनति' इति । अथ वा तस्यामविदलं करोतीति संबन्धः । अविदलमविलसदलं शिथिलमिति यावत् ।

त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु म इति मूले मूलमुपसृजत्यग्रेऽग्रं न ग्रन्थिं करोति ।

उपसृजति श्लषयतीत्यर्थः । कथं, शाखाया मूले पवित्रस्य मूलं तथैवाग्रेऽयं न अन्धि करोतीति । पवित्रावयवेन अन्धि करोति संश्लिष्टं मूलाग्रयोर्यथा तिष्ठति तथा प्रकारा- न्तरेण कर्तव्यमेवेति प्राप्ते दर्भान्तरेण बन्धनमप्यनुज्ञायत एव । मन्त्रलिङ्गाद्दर्भाणां प्रादेशमात्रत्वेऽवगते मूले मूलमित्यादिना लिनेन शाखाऽपि प्रादेशमात्रैवावशेषणीये. त्यवगम्यते । तेन तावतीमवशेषयित्वाऽवशिष्टस्य मूलभागस्योपवेषार्थ इस्त्वमि ). त्यवगम्यते । एवं पलाशशाखायां लिङ्गेन प्रथम मन्त्रमभिधायोमयोरपि शाखयोः पवित्रकरणे शाखान्तरीय मन्त्रमाह-

वसूनां पवित्रमसि शतधारमिति वा ।

गतम् । अनन्तरमपराह्ने पिण्डपितृयज्ञः । अथ सायदोहः ।

सायꣳ हुतेऽग्निहोत्रे ।

इष्टयर्थमुद्धृत एवानावाग्निहोत्रं नानुगमनादिविधिरिति दर्शयित हुतेऽग्निहोत्र इत्यु. - १८. "स्मान्महे ।।