पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । काम्यान्कल्पानाह-

वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य पङ्क्तिकार्यं प्रजा- कामस्य त्रिवृतं ब्रह्मवर्चसकामस्य त्रिवृच्छिरसं ब्रुवते ।

यनमानगताः कामानिवृच्छिरसं ब्रुवत इत्येतद्विना पूर्व चतुष्टयं नित्यं काम्यं चेदं काम्यमेव । त्रिवृच्छिरसं त्रिवृच्छिरो यस्यासौ त्रिवृच्छिरास्तं त्रिगुणशिरसमिति यावत्, ब्रुवते यजमानाय काम्यप्रायपाठाद्यक्तवाक्त्वकामाय ।

तृण्णात्प्रादेशे परिवासयति ।

शुल्नेन बद्ध्वा तत ऊवं प्रादेशमात्रे समाप्ते छिनत्ति । स वेद इत्यर्थः ।

इध्मप्रव्रश्चनानि वेदपरिवासनानि च सह निदधाति ।। ७ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने द्वितीयः पटलः ।। २ ।।

इध्मस्य प्रवचनानि च्छेदनकाले पृथग्जातानि मूलाग्रादोनि वेदस्य च्छेदनकाले पृथकृतानि तृणानि सानि प्रज्ञातानि सहैव निदधाति शेषकार्याय । इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायो प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममने द्वितीयः पटलः ॥२॥

1.3 अथ तृतीयः पटलः । .. इध्माबहिराहरणानन्तरं संहिताब्राझणपाठक्रमप्राप्तं शाखापवित्रकरणपूर्वकं सायंदोहं. व्याचष्टे-

अन्तर्वेदि शाखायाः पलाशानि प्रशात्य सर्वाणि मूलतः परिवास्य ।

अन्तर्वेदि वेद्या अन्तरन्तर्वेदि, तत्र करिष्यमाणवेदिदेशे कृतायां तु मध्ये वेद्या- मुपगूढां शाखामानीय तस्या विद्यमानानि पलाशानि पर्णानि प्रशात्य च्छित्वा, पछा- शान्यसर्वाणीत्ययमकारः प्रतिषेधार्थः, न सर्वाणीत्यर्थः । सर्वस्या अपि कियन्ति च्छित्वा छेदनेन शाखासंस्कारो वेदिदेशे पातनेन पर्णप्रतिपत्तिः । मूलतः परिवास्येति मूलतो मूलमागमेव परिवारमा च्छेदनेन पृथकृत्वा । अयमपि शाखासंस्कारः ।

उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति तमुपबेषं करोति ।

तं छिन्नं शाखाया मूलभार्ग मन्त्रेणोपवेषं करोति कल्पयति न तुं मन्त्रेण च्छित्त्वा यत्र न शाखाहरणं तत्रोपवेषकार्य याक्षिकेन केनापि काठन कार्य, मन्त्रं च केचिदि- ,