पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्न- वपि नोहो मन्त्रलोप एव तूष्णी संभरणं न काम्यो गुणो मन्त्रं गृह्णात्यप्रकरणत्वात् । अत एव वक्ष्यति तूष्णीकं संनहनमिति । विकृतौ यथार्थमूहः-ततस्त्वां त्रयोविंशति- धेति । आतिथ्यायो द्वे समिधाविति । उपसत्सु त्वेका समिधमिति । अस्मिन्पक्ष उपवेषादिशब्दानामनिवृत्तिरसमवेतार्थत्वात् । अयं पक्षः साधीयान् । उपवेषादिश- ब्दानामाघारानूयाजसमित्सु प्रवृत्तिनिमित्ताभावात् ।

कृष्णोऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति ।

पूर्ववत् ।

पूषा त इति प्रदक्षिणं ग्रन्थिमावेष्ट्य तेनैव कल्पेन यथा बर्हिषि ।

प्रशास्वित्यन्तः । तेनैव कल्पेन सत इत्यादि अपकर्षणान्तं, नायमतिदेशः शाखा- तरीयस्योपदेशस्य लक्षणेन कथनम् ।

विप्रतिपाद्य वा ।

अथवा विप्रतिपत्त्या विलक्षणग्रन्धिप्रतिपादनेन यथाकथंचिदेव मन्थ्यपकर्षण कार्य न तत्पुरस्तात्मत्यश्चमित्यादिविशेषेण ।

तेनैव मन्त्रेण ।

सत इत्यनेन मन्त्रेण यथाकथंचिगन्थ्यपकर्षणपक्षेऽपीत्यर्थः ।

बर्हिषा सह निदधाति ।

सर्व तूष्णीमेव ।

वेदोऽसि येन त्वं देव वेददेवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूया इति दर्भाणां वेदं करोति ।

मध्य इध्मेन व्यवधानात्पुनदर्भाणामित्युक्तं, वेदशब्दोऽयं संस्कारवाची, य एवं क्रियते स वेदशब्दवाच्य इत्यर्थः । कर्तव्यताप्रकारमाह-

वत्सज्ञुं मूतकार्यं पङ्क्तिकार्यं त्रिवृतं वा ।

वत्सस्य जान्विव वत्सवः । जानुशब्दस्य जुरादेशः । दर्भमुष्टिं गृहीत्वा झप्रदति. णमावेश्य किंचित्प्रदक्षिणमावेष्टनेन द्विगुणं कृत्वा द्विगुणप्रदेशानन्तरमेव शुखेन बध्नाति । यथा मूलाग्रे विविच्य तिष्ठतः । वत्सो ह्युपविष्टस्तस्य जानुनि संनमनेनोरु- मङ्घयोनानुसमीपे च संनिकर्षः परतोऽसंनिकर्षस्तथा कार्य इति भावः । मृतकार्य पत्र राशीभूते तृणपुञ्जविशेषेऽधस्तादुपरिष्टाच बद्धे मध्ये धान्यं निधीयते तद्वन्मत- सदशमित्यर्थः । पति कार्य विस्तीर्ण गुम्फितमुपवेशनाद्यर्थं तत्पतिस्तद्वत्कार्य, तद्वत्रि. वृतं त्रिरावर्तनेन संपादितस्त्रिवृतो वेणीसदृश इत्यर्थः । १घ, हैं. ज. स.अ. द. बध्यते ।