पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ध्मसमिधामुक्ता । स्थविष्ठत्वं स्थूलत्वमुत्तरापेक्षया च मध्यमे किंचिदणुत्वं पूर्वापेक्षया दक्षिणाय एव तथैव द्राधीयस्त्वं दीर्घत्वं दक्षिणायें एव । अणिष्ठो हसिष्ठ उत्तरार्ध्यः । मध्यमापेक्षया हृस्वत्वं तदपेक्षयैवाणुत्वं च । अर्धशब्दो मागवाची । दक्षिणमागे भवो दक्षिणार्ध्यः । एव मुत्तराभ्योऽपि ।

द्वे आघारसमिधौ ।

भाषारप्रदेशे आधीयमानत्वात्तथा ।

अनूयाजसमिदेकविꣳशीति ।

अनूगानार्ष समिदनूयामसमित् । सर्वासा समिधां भूम्नाऽग्नीन्धनत्वेन तदपेक्षयेध्म इति संज्ञा ।

समूलानाममूलानां वा दर्भाणामयुग्धातु शुल्वं कृत्वा प्रागग्रमुदगग्रं वा निदधाति ।

शुल्वशब्दो जातिनिमित्तो न संस्कारनिमित्त इति' ज्ञापयति यदाहायुग्धास्विति । संस्कारवत्त्वे( त्वं ) तु प्राप्तमेव शुल्वत्वेन । तथा पूर्वोक्तमन्त्रनिवृत्तिः । समूलानाममू- छानामिति विधानमन्यत्र ज्ञापयति नियमं पूर्वस्मिन्छुल्वेऽमूला एव कर्तव्याश्छेदनस्य प्रकृतत्वात् । पिव्ये समूला एव । ' यत्समूलम् । तपितृणाम् । ' इति श्रुतेः । अत्रा- नियमः । अत्रैव वा नियमः समूलानामेवामूछानामेव वा ।

यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वा मेकविꣳशतिधा संभरामि सुसंभृता । त्रीन्परिधीꣳ- स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिꣳꣳ संभरामि सुसंभृतेति शुल्ब इध्मꣳ संभरति ।

प्रागप्रमुदगर्ग वा निदधाति शुल्वानुसारेण व्यवस्थया । अत्र यज्ञायुरनुसंचरानिति पुंलिङ्गः शब्दः समिधां परिधीनां च वाचकस्तथाऽपि पुमान्त्रियेति सूत्रेणैकशेषे पुंलि. ङ्गताविधानात् । तथा च यत्र न परिधयस्तत्र स्त्रीलिङ्गेनोहः । ननूपवेषं मेक्षणं धृष्टि- मिति पुनरपि पुंलिङ्गताप्राप्तिरिति चेत् । न.। तिस्त्रः समिध इति स्त्रीत्वेनापि प्रतिपाद- नात् । अत्र भाष्यकृन्मतं पूर्व द्वे आघारसमिधावनूयाजसमिदेकविंशीत्युक्तं तस्मादा- तिथ्यायामन्याजसमिदमानार्धष्टिशब्दस्योपसन्मु चाऽऽघारानुयाजसमिधाममावादृष्टि- मेक्षणशब्दयोनिवृत्तिरिति । केचिदुपवेषादिशब्दा न कर्मसमवेतार्थप्रकाशका अपि तु संभ्रियमाणस्येमस्य स्तुतिस्तत्पक्षे तु न त्यागः । प्रकृतौ काम्यत्वेन काष्ठवृद्धा-

  • तथापीत्यधिकम् ।

क. ख, ग, छ.ट...'शी । १२