पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचित भौतसूत्र-- [रपथमप्र- शब्द इध्यतेऽनिरनैनाते ननु (त) संस्कृतवाचीत्युक्तं वारूण्यतष्टकाष्ठानि सनपति पक्ष्यमाणप्रकारेण । काष्ठानां विनियोगमाह-

पच्चदश सामिधेन्यर्थानि ।

सामिधेन्यनुवचनकाले समिन्थनार्थत्वेन प्रक्षेप्यमाणानि 'सामिधेन्यः प्रयोजनं येषा तानि सामिधेनीभ्य इति वा सामिधेन्वर्धानि सामिधेनीप्रयुक्तानीति यावत् । सामिधे- नीमिः प्रकाश्यमानोऽर्थः समिद्धिः समिध्यमानोऽग्निस्तस्य विशिष्टस्य विशेषणान्यपि सामिधेनी भिरर्यन्तेऽभिधीयन्तेऽतस्तान्युपकारकत्वात्तदर्थानीयुक्तम् । न ह्यसत्यर्थे शब्दः प्रवर्तते ।

त्रयः परिधयोऽनियतवृक्षाः सत्वक्वाः ।

अग्नेः परितो धीयन्ते तानि दारूणि परिचयः, अनियतवृक्षा नानानातीयो वृक्ष उपादानं येषां ते । अत एवाऽऽहाऽऽपस्तम्बः-'त्रयः परिधयः पलाशकार्मर्य- खदिरोदुम्बरबिल्वरोहीतकविकतानां ये वा याज्ञिका वृक्षाः' इति । समिर्धा सत्वस्व स्मृतिसिद्धम् । परिधीनां तु शभ्याकारत्वं स्वेव विधास्यते स्मार्ते, आकारस्तु तक्षणेन विना न भवति तच्छङ्कानिवृत्यर्थ सरवका इत्युक्तम् । तत्रैव वैशेपिकं सार्थवाद विधिद्वयमाह-

आर्द्रा भवन्ति ते हि सरसा इति विज्ञायते शुष्का भवन्ति मेध्यत्वायेति विज्ञायते ।

विज्ञायत इति शाखान्तरीयसाक्षाच्छृतित इत्यर्थः । ते हि सरसा इति मेध्य- स्वायेति चार्थद्वयप्रदर्शनं कर्मानज्ञानार्थम् । उक्तं च बौधायनेनार्थवादरम्युदयायेति । अर्थवादाज्ञाने यजुर्भेषप्रायश्चित्तं मुवः स्वाहेति दक्षिणाग्नौ । एवं यत्र यत्रार्थवादानुदाह- रति तत्र दृष्टं प्रयोजनं येषु लभ्यते तत्र तथा । यत्र न लभ्यते तत्र कर्मान- ज्ञानार्थमेव ग्रहणम् । त्रय आर्द्रा एव वा कर्तव्याः शुष्का एव वा ।

स्थविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः ।

अत्र हि स्मृतिकारः कनिष्ठिकास्थूलाः समिधोऽनामिकास्थूला इमसमिध इतरानु। लिस्थूलाः परिधयः समिधामपि प्रादेशमात्रत्वं स्मृत्य(त)म् । द्विप्रादेश इध्मनिप्रादेशाः परिधयो बाहुमात्रा इति भारद्वाजः । द्विचत्वारिंशदङ्गुला इत्यर्थः । एतानि प्रमाणानि मध्यम एव । इध्मसमिधामपि प्रादेशमात्रत्वं स्मृत्यन्तरे । कात्यायनीयस्त्वायतनमानते- १ख..3, 2... लक्ष्यते । २ ख. छ. उ. अ. मिषस्तु ।