पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्र--- [१प्रथमप्रमे

अपरिमितानां परिमिताः संनह्ये सुकृत्तायकम्। एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्वित्यभिमन्त्र्य अथ सुसंभृता त्वासंभारमीति शुल्बे निधनानि संभरति ।

अभिमय निधनानि मन्त्रलिजात्तेषामेव प्रतीतः । संभरति "निदधाति । संभ मी. स्यन्तः । अभिमन्त्रणं तत्रं विभुत्वासंभरणे तु प्रतिनिधान मन्त्रों न हि तानि संकृत्सभर्तु शक्यन्ते, न च मेलनीयांनीति विधिरस्ति । तथाचाऽऽह वैखानसः-'यथालून समरति : इति । वनक्रमेणैव संभरणविधानात् । तथान प्रस्तरस्योत्तमे निधाने संभरणमुपपद्यते सुसंभूता त्वेति प्रकृतनिधनैकत्ववचनाच न संभरणं सकृत् ।

अलुभितो योनिरित्युत्तमे निधने प्रस्तरमादधाति ।

सष्टम् ।

इन्द्राण्यै संनहनमिति संनह्यति पूषा त इति प्रदक्षिणं ग्रन्थिमावेष्ट्य ।

अभात्विति मन्त्रान्तः । संनयति शुखेनं संगृह्णाति शुरुवान्तावुपर्यानीय विपर्यस्य वितनोतीति यावत् । ग्रन्धिमांवेष्टयतीत्येतायता प्रादक्षिण्यं सिध्यति परिभाषयवेति प्रदक्षिणमित्यवाच्यं वाच्यं प्रकारान्तरग्रन्थिनिरासार्यमुपरिगुणावेष्टनमात्रेण प्रन्धिर्यथा स्यालोकसिद्धप्रकारान्तरग्रन्थिर्मा भूदिति ।

स त इति पुरस्तात्प्रत्यञ्चमुपकर्षति पश्चाद्वा प्राञ्चम् ।

मा स्थादित्यन्तः । प्रन्थिमित्यावर्तते । बर्हिषि दिशोरभावाहियो वेष्टनस्य पूर्वभागेन (ग) प्रन्थिमधस्ताद्वेष्टनस्यैव प्रत्यश्च प्रतीचीनं कर्षति निर्गमयति, ग्रन्थिमात्र न तु शुल्वप्रान्तावपि, अन्थिरेव मध्ये द्विगुणीकृतोऽपकर्षणीय इत्यर्थः । विपरीतं: वाऽपकर्षति ।

आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इत्यारभते ।

बर्हिरिति शेषः प्रकृतत्वात् । आरमत आहरणार्थमारम्भ हस्ताम्यां गृहीत्वा करोतीत्यर्थः ।

इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते ।

ऊर्ध्वमुद्यौति. बहिरेव । उद्यच्छत इत्यात्मनेपदं छान्दसम् । क, ख, ग, वेष्टयति ।।