पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्विः पटलः) महादेवकृतवैज़गन्दीव्याख्यासमेतम् । मुष्टीनामयुक्त्वयुक्त्वे त्वविवक्षिते । कृतानि निधनानि समानि विषमाणि वाऽथवा मुष्टय एव समा विषमा वैति । न चात्र कोट्यन्तरासंभवादवाच्यमिति वाच्यम् । युग्मविधानेऽपि द्वयोस्त्रयाणां च निषेधः फलति बहुवचनेन विधानात् । एवमयुग्म- विधाने बहुवचनेनैकस्य द्वयोश्च प्रतिषेधः । तथा च ब्राह्मणद्वयानुरोधेनैवमुक्तम् । फलं तु चतुःप्रभृति समत्वं विधेयं त्रिप्रभृति विषमत्वं वेति । अत्र परिभोजनीनामका- न्दर्माशुष्कानशुष्कांश्च परिस्तरणाद्यर्थे लुनन्ति याज़िकाः । तथैव वैखानसेनोक्तम् ॥

अदित्यै रास्नाऽसीति प्रदक्षिणꣳ शुल्बमावेष्टयति ।

आवेष्टयतीत्यनेन सामन्ते सिद्ध प्रदक्षिणमित्यवाच्यं वाच्यं द्विगुणत्वनिरासार्थ. मन्यथा सव्यं गुणं वेष्टयित्वा प्रदक्षिणं स्यात् । शुल्ल बन्धनार्थी रज्जूस्तथा मा मूदिति किं तु प्रथमत एवं प्रदक्षिणमेकसरामेवाऽऽवेष्टयतीत्यर्थः ।

अयुपिता योनिरिति प्रतिनिदधाति त्रिधातु पञ्चधातु वा धातौ धातौ मन्त्रमावर्तयति ।

मन्त्रेण प्रतिनिधानं प्रतिसंधानं मुल्यन्तरस्य पूर्वमेकमुष्टिमात्रमावेष्टितं सस्प संघानेन द्वितीयमुष्टि प्रतिसंदधातीत्यर्थः । कथं, त्रिधातु प्रयो घातवोऽवयवाः संघानार्थी यस्मिन्छुल्बे, तथा धातो यावन्तः प्रक्षिप्यन्ते प्रतिप्रक्षेपं मन्त्रावृत्तिः । कुतः , धातूनां संख्यया पृथग्दव्यत्वात् । यावान्संहितस्तावानेव संस्कृतोऽन्यस्य संधीयमानस्य संस्कारार्थ भवितव्यं मन्त्रेण । तत्र पूर्वसूत्रे 'शुल्चमावेष्टयतीत्यावेष्टनम- भिहितं, तत्तु दर्भयुष्टिनैवेत्यासिद्धम् । ततस्तु संघानार्थे मन्त्र उक्तस्तत्र संख्याका धातूनां सा संख्या प्रथमधातुना सहेति गम्यते । तदुकं कात्यायनेन-' अयुग्धातूनि पूनानि ' इति । पूनानि बन्धनानि, तेन रज्ज्वा एव तथात्वमुक्तम् । प्रतिसंघानकि- याविशेषणत्वे तु धातूनां भवत्येव पूर्वेण सह ग्रहणं, न हि प्रतिसंघानमेकस्य भवति । तथा च त्रिघातुशुल्वे द्विःसंधाने चतुरावृत्तिरिति ज्ञेयम् । नन्वत्र मन्त्रावृत्तिर्न वाच्या द्रव्यपृथक्त्वेऽम्यावर्तत इति प्राप्तत्वात् । सत्सं, नेयमावृत्तिर्मन्नस्य संघानार्थोच्यतेऽपि तांवेष्टनार्थी । तत्र शुल्वस्यैकत्वे च सकृत्प्राप्ताविदमुक्तं यद्व्यैकत्वेऽपि मध्ये मध्य आवेष्टनक्रियायाः संधानार्थ मन्त्रेण व्यवधानात्। यया कालदेशकृते मेरे द्रव्यभेदोऽमि- धास्यत एवं मन्त्रकृते न्यवायेऽपि गन्यभेदान्मन्त्रावृत्तिरिति । तदेव भरद्वाजवचनेन द्रव्यपृथक्त्वेऽभ्यावर्तत इत्यत्र सूत्रे व्याख्यातं न विस्मरणीयम् ।

पृथिव्याः संपृचः पाहीति प्रागग्रमुदगग्रं वा शुल्बं निदधाति ।

विततं पृथिव्यां स्थापयति । स्पष्टमन्यत् ।