पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

u 1 --

। सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमपने- नित्येतावता सिद्धे गुरुनिर्देशेन सर्वेषु मुष्टिपूत्सर्गतः पदार्थानुसमयः प्राप्नुयात्स मा भूत्काण्डानुसमयो यथा स्यादित्युक्तम् । एतेनैकस्मिन्मुष्टौ कृतेन कल्पेन समर्थेन काण्डानुसमययुक्तो हि समर्थः संयुक्तान्येकापवर्गाणीति वक्ष्यमाणत्वात् । अतस्तेन विधिविशेषेण दातीतराबहिर्मुष्टीन्प्रत्येकं छिनत्तीत्यर्थः तत्र प्रतिमुष्टि त्वावर्तनीयं परिच्छिनत्ति--

यदन्यत्परिषवणादुत्सर्जनाच्च ।

द्वयस्य सर्वार्थत्वं स्पष्टमिति न तस्याऽऽवृत्तिप्राप्तिरिति मत्वा यदन्यत्परिषवणा- दिति परिवर्जनीयमुक्त, सर्वेषां परिग्रहो जातः परिषवणाख्यो विभुत्वात्संकल्परूपस्य परिषवणस्य नाउयुत्सर्गो वैकल्पिकः । सोऽपि सर्वस्य परिपूतस्येत्युक्तमेव । अतो द्वयं विहायान्यद्देवस्य स्वेत्यादि समानमित्यर्थः । परिषवणोत्सर्गशब्दाभ्यां परिषताभिमर्श- नोत्सृष्टामिमर्शने च परिसंख्याते । उभयोः संस्कारप्रतिपत्तिरूपयोः सर्वार्थत्वेन जातत्वात् ।

सर्वं यथार्थं लुत्वा ।

उत्तरविधानार्थमनुवादमात्र, दिवेति वक्तव्येऽप्याच्छिनत्ति दाति लुनाति लुनोति । एते प्रयोगाः समानार्थाः क्वचिच्छाखायां कश्चिदिति दर्शयितुमच्छिनत्तीति प्रयुज्य गुणविध्यर्थ दातीत्युक्त्वा लुत्वेति प्रत्ययेनानुवदति यथार्थ वेदेानुसारेण मुष्टानां संख्या बहियानुसारेण च । देवस्य त्वेत्यादिना मन्त्र नातेनाभिप्रतिपद्यत इत्यादि कर्मजातं प्रतिमुष्टयावर्तत इति न्यायः स्मारितः ।

देवबर्हिः शतवल्शं विरोहेत्यालवानभिमृशति ।

उलाः स्तम्बशेषा आवश्चनानि भूमौ येऽवशिष्टारछेदकालेऽपादानभूता इति यावत्त- प्रतिपत्तिरिय सकृदेव प्रभत्नावृत्तावपि न मन्त्रावृत्तियत्रै कस्मिन्द्रव्य इति न्यायात् ।

सहस्रवल्शा वि वयꣳ रुहेमेत्यात्मानमत्यभिमृशति ।

आत्मानं हृदयदेशं तत्रैव पुमान्हस्तं दत्त्वाऽहमस्मीत्यात्मानं दर्शयति हस्तेन स्पृशति आत्मानं प्रतिसंधायामीति न मनोमात्रेण पश्यन्नपि तु चक्षुषाऽपीत्यर्थः । अपामुपस्पर्शनं स्मार्तम् ।

अयुजो युजो वा मुष्टीन्निधनानि वा लुनोति ।

नेदं मुष्टीनां निधनानां च विकल्पार्थ मुष्टीनामेव नित्यं छेदनीयत्वेन विधानात् । निधनानि मुष्टिराशयो धान्यादिलवने प्रसिद्धास्तेषामेव संमरणं नित्यं विधास्यते । अतो सूर्य नित्यमयुक्त्वं युक्त्वं च विकल्पमानमन्यतरन्मुष्टिषु वा स्यानिधनेषु वेति विकल्पार्थः। ख.ति प्रथम । ३ क.वं. ग. च... "हेत्युलपान । ३ ख. निरये। 1