पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्र-] नां तु कर्मणां समानायसमाप्तौ वेदशब्दस्तत्र संख्या विप्रतिषिद्धा । शब्दार्थतया यान्यन्वारम्यन्ते न प्रत्यक्षादिप्रमाणगोचरतया तानि शब्दार्थारम्भणानि कर्माणि वैदि- कान्यग्निहोत्रादीनि तेषां समाम्नाय उपदेशस्तस्य समाप्तौ स यावता अन्धनातेन समा- तोऽनुष्ठानपर्यन्तो भवति तत्र वेदशब्दो वर्तते वेदयति धर्म विदन्त्यनेन वा धर्ममिति । न च मन्त्रब्राह्मणमात्रेणानुष्ठानपर्यन्तमुपदेशो भवति किं तु कल्पसूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एवानुप्रवेशात्पञ्चैवाङ्गानि । अत्र षट्सख्या विप्रतिषिद्धेति । परिहरति-अङ्गानां च प्रधानैरव्यपदेश इति न्यायवित्समयः । अङ्गान्येव कल्पसूत्राणि न वेदरूपाणि पौरुषेयत्वस्मरणात् । कतिपयान्येव हि तेषु ब्राह्मणवाक्यानि भूरीणि स्ववाक्यानि | अङ्गानां च तेषां प्रधानवाचिमिः शब्देश्छन्दो वेदो ब्राह्मणमित्यादिभि- र्थपदेशो न न्याय्य इति न्यायवित्सिद्धान्तः । ताविमौ पूर्वपक्षसिद्धान्तौ कल्पसूत्राधि- करणे स्पष्टतरं द्रष्टव्यौ । यत्ततं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश इति, नैष स्थाणोरपराधो पदेनमन्धो न पश्यति पुरुषापराधः स भवति न वेदापराधः । ऋषयो हि वेदं वेदान्तरेण तत्सूचितन्यायश्च स्वबुद्ध्या संकल्प्य समर्थमेव प्रतिशाख पश्यन्ति न तु तत्र किंचिदपि लौकिकप्रमाणमात्रसिद्धं संक्रामयन्ति । मवानसमर्योs. गानि शास्त्रान्तराण्यधीत्य प्रयोग कर्तुं समर्थों भवत्वितीदानींतनानां कल्पायेव शरण- मिति तदध्ययनमावश्यकम् । तत्र कल्पसूत्रं प्रतिशाखं भिन्नमभिन्नमपि क्वचित् । शाखा- भेवोऽध्ययनमैदावा सूत्रभेदाद्वा । आश्वलायनीयं कात्यायनीयं च मूत्र हि भिन्नाध्यय. नयोयोद्धयोः शाखयोरकैकमेव । तैत्तिरीयके समानाये समानाध्ययने नानासूत्राणि । 1 तद्भेदादपि शाखाभेदश्चरणव्यूहशास्त्रे दृश्यते । न च सूत्रभेदे शाखाभेदः शाखाभेदे च सूत्रभेद इति परस्पराश्रय इति वाच्यम् । यथाऽध्ययनभेदाच्छाखाभेदोऽनादिरेवं सूत्र. मेदादपि । न हि सूत्राणां कर्तृ संबन्धि संज्ञाऽद्यतनी किं तु नानाकल्पगतासु तत्तन्नाम• . कर्षिव्यक्तिषु नित्या । तत्प्रणीतसूत्रेषु च नित्या जातिमवलम्ब्य तिष्ठति । यथा पुरुष. नामाङ्कितशाखासु संज्ञा । न च तत्रानाद्यानुपू. समाधिरिति वाच्यम् । अत्राप्य- र्यानपूर्व्या अनादित्वात्समः समाधिः। शब्दानुपूर्वी यद्यप्यन्यथाऽपि संभाव्यते तथाऽऽपि न व्यक्तिभेदेन जातिभिद्यते । अनुष्ठानक्रमस्त्वपौरुषये एव । अध्ययनेऽपि नाऽऽनुपूर्वी नित्या प्रतिपूरुषं तस्या जन्यत्वेनानित्यत्वात् । आन्नाये पूर्वानुपूर्व्यनुसंधानेनाध्ययन सूत्रे तु देवाकयाऽप्यानुपूर्त्या शब्दगतयाऽप्यानपर्यनाविरभिव्यज्यत इति सूत्रेषु स्मृतित्वं स्मृत्यधिकरणे स्थितं तत्सूत्रकारेणैवोक्तं न्यायविरसमय इति मीमांसासिद्धान्तस्वीकार- दर्शनेन । तथा स्मृतिप्रामाण्यमपि न्यायतन्त्रादेवत्यपि दर्शितम् । श्रुतिरपि स्मृतीनां वेदमूलत्वमाह- 'यद्वै किंच मनुरवदत्तद्देषजम् , इति । भेषजं यथा हितमेवं मनुवचन- मपि प्रमाणत्वेन-हितमित्यर्थः । १ख भूयिष्ठानि । २ ग. गसि । । . -