पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ [प्र० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । - मनुरपि - 'श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम् ' इति ॥ अत एव मरीचिः -- 1 दुर्बोधा वैदिकाः शब्दाः प्रकीर्णत्वाच्च येऽखिलाः । तज्ज्ञैरत एवं स्पष्टार्थाः स्मृतितो व्यवस्थिताः || इति | स्मृतितन्त्रे स्मृतिलक्षणे शास्त्रे व्यवस्थिता अर्थकथनेन । तथा बैकस्यां तैत्तिरीयक- शाखायां समानपाठायां सूत्रभेदादवान्तरशाखामेदश्चरणव्यूहशास्त्रे दर्शितः | चरणाः शाखा: सूत्राणि च व्यूहो विविच्य भेदः । न चात्राध्ययनमदोऽस्ति । तस्मात्सूत्रभे- 'दादेव शाखाभेदः । ननु स्वाध्यायैकदेशो मन्त्रबाह्मणात्मकः शाखेत्युच्यते, तयो मन्त्राह्मणयोरन्यतरभेदेन वेदेऽवान्तरशाखामेदः स्यादिति चेत् | सत्यम् | यथा सा स्वाध्यायो वेदशब्दवाच्य एवं शाखाऽपि साव वेदैकदेशत्वेन शाखान्तरस्वं लभते । तत्राङ्कस्य सूत्रस्य मेदाद्भिद्यत एवं स्वाध्यायाध्ययनमिति । भवतु चरणभेद एव शाखा- भेदव्यवहारे हेतुः । तथा च यथा शाखाध्ययनं नियतमेवं सूत्राध्ययनमपि न व्यत्ययेन कर्तुं शक्यं कर्मानुष्ठानं च व्यत्यये प्रायश्चित्तश्रवणात् । स्वयमपि वक्ष्यति चरणहते प्रायश्चित्तं त्रिवृशिष्टुतम् चरणहतत्वं तु शाखासूत्रयोः प्रत्येकं व्यत्ययात् । ननु समाने स्वाध्यायाध्ययने कथं कर्मभेदः कथं च सूत्रभेदस्तद्भेदे वा कथं फलैक्यमिति चेत् । उच्यते – नास्ति कर्मभेदः । यथा नानाशाखाप्रत्ययमेकं कर्मेति न्यायशास्त्र निर्णयेऽपि स्वशाखापेक्षितानेव विधीयायांवोपसंहृत्य तत्तच्छाखिनः कर्माभेदेऽपि प्रयोगभेदं रच यन्ति न हि शब्दान्तरादिभिः प्रमाणैः कर्मभेदोऽस्ति किं तु यथैकस्यामेव शाखा- यां नित्यकाम्यभेदेन प्रयोगभेदमात्रं तद्वत्प्रयोगभेद मात्रमेव तत्क्रमगुणभेदेनेति वक्ष्यति- - . .. तौ समानविधानौ' इत्यादिना तथा समानेऽध्ययनेऽपि क्वचिदनेकार्थस्य शब्दस्यै- कार्यविवक्षयाऽनुष्ठानभेदः । कचित्त्व विध्यपेक्षित शाखान्तरीयमन्त्रब्राह्मणनानात्वेन प्राप्ते वैकल्पिकप्रयोगे नियतैकैक कोट्याश्रयणेनानुष्ठानभेदः । ततो न फलस्यापि प्रयोग- भेदे तारतम्यमस्ति । यथैकस्यां शाखायां हिमिरिष्टे यत्फलं तदेव यवैरपि । यच्चो- दितहोंमे तदेवानुदित होमेऽपि । तच्च तच्छाखिनामेव नान्येषां व्यत्यये चानिष्टमपि । तस्मा- नानार्थानेकश।खोपसंहारेणाग्निहोत्रादिकर्मणां वैकल्पिकानुष्ठान प्राप्तौ व्यवस्थापकानि कल्पसूत्राणि भवन्तीति सिद्धम् । अवश्यं च शाखान्तरोपसंहारो ऽपेक्षितः | नोकस्यां शाखायां श्रौतस्मार्तकर्मानुष्ठानं साकल्येन विहितं तन्मन्त्रा वा पठिताः। किंतु किंचि रक्कचिदाध्वर्यवहोत्रादिसापेक्षमेवेति वेदान्तरापक्षं प्रसिद्धमेव । एवमाध्वर्यवादेः साकल्य- . सिद्धय आध्वर्यवादिशाखान्तरापेक्षा | न च स्वशाखाविहितमात्रेण शास्त्रसिद्धिः, उप- नयनादिसंस्काराणामस्मच्छाखायामविहितानां लोपप्रसङ्गात् । दृश्यते च शाखान्तरी- १ क. ग. च. "दोत्रक । २ ख. छ, "येवं दी।