पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटळ:]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४५ तत्राभ्यावर्तते मन्त्र इति । द्वितीयाया विपरिणामेन योजना | आवर्तत एव, नाऽऽवृत्तिपरिसंख्येयम् । उदाहरति-

ययाऽऽज्यग्रहणे लवने स्तरणे च ।

अयमाशयः-षोडशान्याज्यानि भवन्तीति यद्यप्याज्यशब्देनक द्रव्यं तथापि पोडशानीत्यवान्तरद्रव्यभेदात । चतु“हामष्टावुपभृति चतुर्धवायामिति च क्रियाभ्यासः श्रूयते, स तु संसृष्ट एकस्मिन्नेवाऽऽज्ये द्रव्ये, तथाऽपि संख्यया सुवेण ग्रहणं नियम्यते । आज्यत्वेनैकद्रव्यत्वेऽपि खुवपरिमाणेन परिच्छिन्नस्योद्देश्यस्य षोडशानां नानादव्यत्वादस्त्येव मन्त्रावृत्तिः । संस्कारस्य दृष्टार्थत्वे स्वेण ग्रहणं नियतमाज्यस्था. स्यास्तद्गृहीतमेव मन्त्र संस्कृतमगृहीतं तु मन्त्रान्तरेणैव संस्कर्तुं युक्तं, तथा मन्त्रावृत्तिः। क्रियावृत्तिस्तु न संभवति । यथा प्रोक्षित पुनरपि प्रोक्ष्यते नैवं गृहीतमेव पुनर्ग्रहीत शक्यत इति पुनर्गृह्यमाणं द्रव्यं संस्कृताहव्यान्तरमेवेति मन्त्रावृत्तिः । बहिर्विषये लव- नस्तरणोदाहरणप्रदर्शनं बहिर्जुनातीत्यादौ द्रव्यैकत्वेऽपि मुष्टिमात्रस्यावयवत्वं सनखं मुष्टि दातीति विधानात्तत्रापि पूर्ववत् । महिषा वेदिय स्तृणातीत्येकद्रव्यत्वेऽपि त्रिधातु पञ्चधातु वेति विभागेन स्तरणविधानात्तत्रापि पूर्ववत् । एतेन यत्र बहुवचनेन पात्राणि संमृशतीत्यादि विधीयते तत्रापि समर्शनं सकृत्कर्तुं न शक्यत इति मवेदेवाऽऽवृत्तिः । तत्र ग्रहणसमार्गवन्न प्रतिपात्रं किंतु यावान्त सकृत्समर्शनयोग्यानि तत्र सकृदन्यत्र पुनरावृत्तिरिति केचिदाहस्तनिरस्तम् । तत्रापि केनापि प्रकारेण नानादन्यताया अदर्श नान्सकृन्मन्त्र इत्येव न्याय्यम् । नाप्यत्र प्रकारान्तरेण वक्ष्यमाणमपि द्रव्यपृथक्त्वामावेऽपि मन्त्राभ्यासकारणमास्ति । यदाह भरद्वाजः मन्त्रव्यवाये मन्त्राम्यासो व्यपृथक्त्वेऽर्थ- पृथक्त्वे देशपृथक्त्वे च ' इति । शुल्बावेष्टने प्रतिधातु मन्त्रावृत्तिमध्य आवेष्टन- क्रियायाः संधानमन्त्रेण व्यवधानात् । व्यपृथक्त्वे दर्शित एव । अर्थः प्रयोजनं, तस्य पृथक्त्वे कृष्णाजिनादानमवहननार्थ पेषणार्थ च । देशपृथक्त्वे दक्षिणकपालयोग उत्तरकपालयोगे च मन्त्राभ्यासः । एवं कालपृथक्त्वेऽप्युपवेषादाने सायं सांनाय्यार्थ प्रातः कपालार्थमङ्गारकार्य आवृत्तिः । तत्र तत्र स्वयं मन्त्रावृत्तिमेव दर्शयिष्यति ।

अर्थपृथक्त्वात्कण्डूयनमन्त्रोऽभ्यावर्तते ।

अर्थः प्रयोजनमुद्देश्यं निमित्तं च तस्य नानात्वाद्र्व्यैक्येऽपि मन्त्र आवर्तते । यथा सुपिप्पलाम्य इति शिरः कण्डूयते विषाणे विष्येतीतराङ्गानी(णी)ति शिरसि यावन्ति कण्डूयनान्युद्दिश्य प्रवृत्तस्तावतां सकृन्मन्त्रः । तथा चाम्यासे निमित्तं कालव्यवायः, स $ , १क व. समवं । च. ख. सन्ना।