पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. - ४४ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रक्षे- सकृदेवोचारितः क्रियाम्यासावयवेन संबद्धो हि करणं संदङ्ग न तु मध्ये क्रियावयवैः संवध्यमानोऽपि । नहि ते क्रियाभ्यासा अप्यन्याः क्रिया भवन्ति । भेदो हि शब्दान्तरा- भ्याससंख्यासंज्ञागुणप्रकरणैर्वक्तव्यः । स न प्रकृते क्रियाभ्यासोऽङ्ग, मन्त्रोऽप्यङ्गं क्रियायाः । न च तयोविनियोनकप्रमाणमस्ति । तस्मादेकस्या अङ्गं सकृदुच्चारित एवेति त्रिः प्रोक्षतीति संख्यया मावनाम्यासो विहितस्तत्र मन्त्रावृत्तिर्मा भूदित्येव- कारेणोक्तम् । न चात्र संख्यया कर्मभेदस्तया भेदोऽप्यनुसंख्यक्रियापदात्तिस्त्र आहुती- र्जुहोतीति । अत्र क्रियाम्यावृत्ती कृत्वसुनर्थे त्रिरिति संख्याऽभ्यासपरा । यत्र प्रधानकोत्पत्तिविधिस्तत्रैव प्रायेण क्रियासमानाधिकरणा संख्या त्रिनिदधातीत्यत्र प्रधानकर्मण्यप्यभ्यास एव विधीयते । संस्कारकर्मसंख्याऽभ्यासप्रतिपादितैव । तत- श्वाभ्यस्तया समानकालैकभावनयैव संख्या च मन्त्रश्च संबध्येते, तस्या वाक्यार्थत्वान्न तु तेषां परस्परसंबन्धो भवति । तदुक्तम्-'गुणानां तु परार्थत्वादसंबन्धः समत्वा. स्यात् । इति । अतः सर्वत्रावघातपेषणादिसंस्कारकर्मसु बहिरादिच्छेदनादिषु प्रोक्ष- णादिषु दृष्टार्थेष्वपि संस्कारकर्मसु संख्यायुक्तेष्वपि सकृन्मन्त्रः प्रयोक्तव्यः । उदाहरति-

यथा प्रोक्षे यूपच्छेदने च ।

प्रथमोदाहरणं समुदायद्व्यैकत्वप्रदर्शनार्थमदृष्टार्थसंस्कारेऽपि साम्यप्रदर्शनार्थ च । सत्र त्रिः प्रोक्षतीति वाचनिकाऽऽवृत्तिः क्रियायास्तथाऽप्युद्देश्यप्रयोजनकत्वात्सव- देव मन्त्रः। द्वितीयोदाहरणं सामर्थेनाभ्यासप्रदर्शनार्थ व्यक्त्येकत्वप्रदर्शनार्थ च । पात्राणीति जात्या पात्रत्वेन समुदायस्य कोडीकारेणैकशब्दत्वादेकत्वं नत्वेकवचना: न्तत्वेनैव व्यक्त्यैकत्वेनैव, बोद्देश्यैकवचनस्याविवक्षितत्वात् । यथा बहिरासाय प्रोक्षतीति बाहःशब्देनैकधर्मकोडौकृतं द्रव्यमेकमिति । निर्वापादौ चेष्टापृथक्त्वेन मन्त्रा वृत्तिश्चतुरश्चतुरो मुष्टीनिर्वपतीति द्विरुक्त्या प्रतिदैवतं निर्वापे त्रिर्यजुषा तूष्णी चतुर्थ पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीमित्यत्रापि पूर्वन्यायः श्रुत्यैव बाधित इति स्वेनैवोत्तरसूत्रोदाहरणैः सूचितं ज्ञेयम् । पूर्वन्यायापवादमाह-

द्रव्यपृथक्त्वेऽभ्यावर्तते ।

यत्रैकस्मिन्द्रव्ये विचेष्टा पृथक्त्वेनाओं निष्पद्यत इत्यनुवर्तते । तत्रायमन्वयः- यत्रै कस्मिन्द्रव्ये व्यपृथक्त्वे द्रव्यावयवभेदे सत्येव विचेष्टापृथक्त्वेनाओं निप्पद्यते - १ छ. ट. तदर्थ । ख. छ. ट. 'दो याऽनुसंख्याति । ३ क. च, ट, ठ, दा तिन । ४. "पर सं' । ५ न. सूष्णीमिति च । ६ छ. ट.bणी चतुर्थमिति च।