पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० सत्याषाढविरचितं श्रौतसूत्रं- : [१प्रथमप्रभे- प्यते। अनन्तरं यावदस्मास्चिन्द्र इन्द्रियं दधात्विति विनियुक्तः। ततः पूर्वतनानामभ्येहि मामनुव्रतेत्याद्यन्ते केषामविनियोगादानर्थक्यमेव स्यात् । नचाऽऽदिप्रतीकेनेति करणश्रुत्या विनियुक्तस्याभ्येहीत्यादीनां लिङ्गेन कथमपि विनियुक्तानां विकल्पो भवति । श्रुतेः प्रबल- वालिङ्गस्य दुर्बलस्य बाध एवेति श्रुतिलि त्यनेन जैमिनिसूत्रेणोक्तमेव । अतो मध्य- स्थानामानर्थक्ये प्राप्त आदिप्रतीकेन समुदाय एवं गृह्यत आनर्थक्यभयादित्युक्तमनेन सूत्रेण । दृश्यते च सहकारिवशादादिप्रतीकमनेकेषामपि मन्त्राणाम् । यथा चतुर्भिरभ्रिमा- दत्ते चत्वारि छन्दासि छन्दोभिरेव देवस्य त्वा सवितः प्रसव इत्याविच्छन्दसाऽऽरदे- आङ्गरस्वदित्यन्तानां चतुर्णा ग्रहणम् । अतोऽत्रोत्तरप्रतीकात्पूर्वतनः समुदायो गृहीत इति गम्यते । एवं च क्वचिन्मन्त्रसमुदा योऽपि विनियुज्यत इति करणभृत्या यथोप- दिष्टं ब्राह्मणवन्त इत्युक्तत्वाच्छतिबलादेकवाक्यतयकमन्त्रत्वेन विनियोगो ज्ञेयः ।

मन्त्रान्तेन कर्म संनिपातयेत् ।

मन्त्रस्यान्तः समाप्तिस्तया कर्म संनिपातयेत् । मन्त्रो हि पदार्थप्रतिपाद. कपदसमुदायस्तस्यान्तोऽन्तिमपद नाशरूपः । नाशारम्भेण सहान्तिमपदार्थज्ञानं तेन वाक्यार्थस्मृतौ जन्यमानायामेव तया सहैव करिम्भे सति कर्मान्तेन सनिपातो भवेत् । तथाऽऽरम्भणीय कर्मेत्यर्थः । मन्त्रोचारणकर्मणो मन्त्रेण सहभावनिः यमात् । वाक्यार्थस्मृतिलक्षणकर्मणोऽप्यनन्तरमेवोत्पत्तेरवश्यमावात्तत्र नियमविधान नाकर्म करणेषु किं तु कर्मकरणेषु । ते हि वाक्यार्थस्मृति जनयन्तस्तद्वारा तद. तिरिक्त कर्म जनयन्ति । तत्रानियमप्राप्तौ नियमो विधीयते कर्मकरणत्वनिहाय । कथं, करणं हि यदा स्वव्यापारेण सहैव क्रियामुत्पादयेत्तदा साधकतमत्वेन प्रकृष्टो- पकार जनकत्वेन करणं स्यान्नान्यथा । अन्यथा व्यापारात्पूर्व विलम्बेन वा कियो. स्पद्यते सा कथमनुत्पन्ने नष्टे वा व्यापारे तनन्या स्यात् । अतोऽन करणमन्त्राणां दृष्टद्वाराऽङ्गत्वनिर्वाहायायं नियमोऽवगम्यते । अन्यथा वाक्यार्थस्मृतिव्यतिरिक्त क्रियां प्रति दृष्टद्वाराऽता न स्यात् । नन पदानि वाक्यं तस्मिन्पक्षे वाक्यार्थस्मृतिलक्षण- कर्मोत्पत्तौ पदानि स्वव्यापारेण पदार्थप्रतिपादनेन वाक्यार्थस्मृतिं जनयन्तीति कथं न वाक्यार्थस्मृतिलक्षणा क्रिया वाक्यकरण(णि)का भवेत्, कथं च ते मन्त्रा अकर्मकरणाः। उक्तं च- साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथाऽपि नैतस्मिन्पर्यवस्यन्ति निष्फले ।। १ च.न्ते तेषा । २ ग. च. ८. 'त् । तच्चाऽऽदि । ३ क. ग. च. 8. श्रुतिः प्रबला लिङ्ग । । क ग. प. उ. 'गोर्मन्बे'। ५ क. ख. ग, ब.उ.हि पदार्थव्या'। ६ क. ग. च.उ. "रकन । ख. छ. 'रकजनकज । ७ क. ग. च. 3. गजानं त्याब, छ, 'स्थति नि।