पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । स्यैव स्वरूपपरत्वेन तावानेव मन्त्रः स्यात् । न च निरपेक्षैकार्थप्रतिपादकत्वलक्षणसा- मर्यन स्वस्वरूपप्रतिपादकं शब्दरूपं स्वप्रतिपाद्याविनाभूतं मत्रशेष लक्षयेदिति वाच्यम् । असमाप्तस्यैवेषे त्वेत्याहेतिवद्यावदुच्चरितप्रतिपादितस्यैव योग्यपदार्थस्मारक- त्वेनकमत्रत्वेऽपि न किंचिदनुपपन्नमित्यत आह-

आदिप्रदिष्टा मन्त्रा भवन्ति।

भादिनस्याऽऽधैकदेशस्तेन प्रदिष्टाः प्रतिपादिता एकवाक्यरूपा मन्त्रा एव भवन्ति प्रयुक्ता दृश्यन्ते न स्वरूपमात्रम् । कुतः । शब्दोच्चारणमात्रेणावयवत्वेन ज्ञानात्सम- मोपस्थितिः शीघ्रमेव भवति यावदर्थद्वारा योग्यपदान्तरापिस्थितिर्मवति । तस्मात्पूर्व- मेव समग्रमन्त्रविनियोगो भवति । नेयं सांप्रतिको लक्षणोऽतोऽपि शीघ्रबोधिका । इषे स्वेत्यत्र न मन्त्रेपाठावसरे योग्य पदान्तरं पठितं यदाकाङ्क्षानिवर्तकं तस्मात्पूर्वस्य च न मन्त्रावयवत्वमवगतं, येन ब्राह्मणेऽवयव्युपस्थितिः स्यादिति यथोपदिष्टमिति न्यायन तावानेव गृहीतो मन्त्रस्तावानेवानुष्ठानयोग्यमर्थान्तरं लक्षयित्वा स्मारयतीति मावः । तदिदं भवन्तीत्यनेनोक्तमन्यत्राप्येकदेशेन नाम्ना सामानाधिकरण्येन समग्रमन्त्रप्रतिपा- दकानां विशेषणानां प्रदर्शनादित्युक्तं भवति । तथा हि-इदं विष्णुविचक्रम इति वैष्णव्यर्चा जुहोतीत्यादावेकदेशस्य वैष्णव्येति तथचेति सामानाधिकरण्यं दृश्यते यदि थावदुचरितपरत्वं स्यान स्यादेव सामानाधिकरण्यमिति । स्वस्वरूपपदार्थत्वमपि प्रसि- मित्यपि मवतीत्यनेनैवोक्तम् । आद्यैकदेशस्य स्वप्रतिपाद्यार्थप्रतिपादकत्ववत्स्वरूप- प्रतिपादनपरत्वमपि प्रसिद्धमेवेति । तथा हि पाणिनिनियममाह-वं रूपं शब्द- स्याशब्दसंज्ञा ' इति । तथा — न वेति विभाषा' इति सूत्रे महाभाष्यकारैरप्युक्तं स्वरू- पपदार्थत्वम् । तच्चेतिकरणेन वा प्रकारान्तरेणाभिव्यज्यते यत्रेतिकरणस्त्रत्र यथा । तथैव याज्याकाण्डे ' त्वं नो अग्ने 'स त्वं नो अग्ने' इत्यत्रापि असमग्रमन्त्रपाठेs- वयवत्वेनावयविप्रत्यभिक्षा । एवं पूर्वोक्त एव त्वमग्ने अयासीत्यन्ते तथैवेति ।

उत्तरास्याऽऽदिना पूर्वस्यान्तं विद्यात् ।

उत्तरमन्त्रस्योऽऽदिप्रतीकेनोपलक्षितः (त) पूर्वस्य मन्त्रस्याऽऽदिप्रदिष्टस्यान्तं समाति जानीयात् । मध्येऽनेकमन्त्रत्वेन यत्र प्रतीति यते तत्र नानकमन्त्रता, किं तु स एक एवाध्ययनविधिबलादेकवाक्यतथैवैक एव ज्ञेयः । यथोपदिष्टं ब्राह्मणवन्त इत्युक्तत्वात् । अत्राऽऽद्यावयनैक एवावयवी बुद्धिस्थो भवति मन्त्रः । उत्तरप्रतीकनोत्तरो विनियुक्तः । तयोविनियुक्तयोमध्येऽन्ये ये क्वचिन्मन्त्राः सन्ति तेषामानर्थक्यं स्यात् । यथा सुरूपव. प्रवर्ण एहोतीडामाहियमाणां प्रतीक्षते । अत्रेमान्भद्रान्दुर्यानिति मन्त्रलक्षणेन मन्त्रः समा. छ. ट. पाय वि।२ क. ग, च. छ. ट. "स्मात्सर्व। ३ क, ग. गान्ताऽपि । च. शान्ता शी°17 . अमानाव १५ ख, स्याऽऽदिः प्र । ,