पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 . सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रमे तव्यस्तत्रानुवृत्त्यैव लम्यते सर्वैरिति न वक्तव्यम् । एवं तर्हि वेदान्तरविहितस्य ब्रह्मत्व- स्थापि नियमार्थमारम्भः सर्वैरिति । ननु तदपि सिध्यति तस्यापि ताम्यामेवोचैः प्राप्तेः । एवं तहि ज्ञापयत्याचार्योऽग्नीषोमीयादूर्ध्व यांच्चैः प्रयोगो द्वाभ्यामेवमनुपां- आप्रयोगः क्वचिद्यजुर्वेदविहितस्याप्यस्तीति । यान्प्राचीनमाग्रयणाहान्गृह्णीयात्ता- नुपांशु' इत्यन्य 'यारिस्तानुपब्दिमतः । इति स्वेनानुक्तोऽपि ग्राह्य इति । एवं सामान्यप्रकरणाद्विशेषविधिविहिताना मन्त्राणां प्रसङ्ग इति तत्सदेवमन्तराऽन- च्यमित्याद्यपि तत्र तत्र ज्ञेयमिति । यत्र विशेषं न वदति तत्र स्वशाखीयमेव । यत्रान्यथा सत्र विकल्प इति । एवं मन्त्रधर्मान्नियम्येदानी यदुक्तं यज्ञकर्मार्था मन्त्रा इति, तमिमन्त्रयोरेक- मत्रत्वं स्पष्टमेव पारेकत्वज्ञानात्परिशेषाद्यजुषामपादबद्धानां क्रियापदहीनानां वाऽध्याहारं विनाऽपि मत्रत्वमस्तीति स्वमतेन विशेष दर्शयितुं सामान्येन मन्त्रविभाग- निमित्तमाह-

यावदर्थोऽपवृज्यते स एकमन्त्रः ।

यावदित्यव्ययं तृतीयाथें । यावता यावत्प्रमाणकपदसमुदायेनार्थः पदार्थ एकरवमु. इश्यगतं न विवक्ष्यते, जात्यभिप्रायेण वा, यावता पदसमुदायेन पदसमुदायार्थोऽपवृज्यते निराकाङ्क्षो भवति, अपवर्गः परिसमाप्तिनिराकासता स पदसमुदाय एकमन्त्रः । अत्राऽऽकाङ्क्षा पुरुषनिष्ठेव यद्यपि तथाऽपि साऽऽरोप्यते पदेषु वा पदार्येषु वा । सत्राऽऽचार्येणार्थोऽपवृज्यत इति वदताऽऽकाङ्क्षाऽर्थ आरोपिता । तेने त्वेति द्विपदे मन्ने क्रियापदस्याभावान्निराकाङ्क्षाणि पदानि न भवन्ति तथाऽपि योग्यपदस्याऽऽना. नादर्थोऽध्याहियत इति निराकाङ्क्षताऽर्थस्यैवोक्ता भवति । तस्मान्न च्छिनोत्यध्या- हारः । न्यायविदस्तु पदाध्याहारं मन्यन्ते । अत एवोक्तं. जैमिनिना 'अर्धेकत्वादेक वाक्यं साकाङ्क्ष चेद्विभागे स्यात् । इति । यद्यपि शाब्दी ह्याकाक्षा शब्देनैवाऽऽ. पूर्यत इति न्यायस्तथाऽपि तागर्थ एवाऽऽनावसमाप्ताद्वाक्याबुद्धिस्थो भवतीति 'सिद्धार्थस्मृत्या क्रियोत्पत्तिरिति न पदस्य प्रयोग इत्याचार्याभिप्रायः । अर्थों निरा- काक्षो भवति स एको मन्त्र इत्युक्ते स्योनं ते सदनमित्यमुमर्थमपेक्ष्य तस्मिन्सीदेति निराकाङ्क्षो भवतीति मिलित्वको मन्त्रः स्यात्तन्निवृत्त्यर्थ विवक्षितमेकत्वम् । ननु सर्वमन्त्रान्त इतिकरण लिङ्ग वा यत्र विनियोजक तत्रैव विनियोगः स्याना- न्यत्र समग्रमनप्रतिपादकनामधेयस्य प्रातिपदिकस्याभावादितिकरणेन च यावदुचरित-

  • निराकाङ्के पदे न भवत इति परितं युक्तम् ।

१०. ज. स. स. बतायों' । २ ग. ट. "नत्तीय। ३ क. ख, ग, च, छ, 'रणो, लि। च, 'यस्या'। ५८. "तिस्वीकारस्या'। ५