पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 प्र०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । बुद्धिस्थत्वात्पश्चान्मन्त्रपाठस्य यथा नैमित्तिकेऽग्निहोत्रहोंमे सामवेदगतो मन्त्रोऽमेवे- होत्रमिति तथाऽऽधाने रधंतरममिगायते गार्हपत्य आधीयमान इति मन्त्राणां सामवेद उत्पन्नानामपि यजुर्वेदेन विनियोगादुपांशुत्वम् । उपांशुत्वं शब्दधर्म इति यजुर्वेदविहिते कर्मण्यसंभवादशावतारन्यायेन यजुर्वेदविहितकर्मार्थेषु, मन्त्रेषपांशुत्वं पर्यवस्यति । पथा सप्तदशारनिनिषेय इति सप्तदशारनित्वं वाजपेयाले यूपे तद्वत् । न्यायेनापवादमाह-

अन्यत्र प्रवरसंवादाश्रावणसंप्रैषेभ्यः ।

एभ्योऽन्यत्रान्यकर्मस्वेव । न्यायमूलमिदं सूत्र परसंप्रत्यायनार्थानामामन्त्रणानुज्ञादि- वचनानामप्युपलक्षणम् । अग्निदेवो होतेत्यादिः प्रवरः । संवदखेत्यादिः संवादः। आश्राव- येत्याश्रावणम् । प्रत्याश्रावणस्यास्तु श्रौषडित्यस्यापि ग्रहणम् । श्रेषो यजेत्यादिः । अत्रा- न्यत्र परप्रत्यायनार्थेभ्य इति लाघवेन वक्तव्येऽपि विविच्य प्रदर्शनं प्रवसति यजमाने प्रवर. स्याग्ने हविनिर्वस्यामात्यस्योमुन्नेष्यामीत्येवमादीनामुच्चस्वरो यथा स्यात् । तथोपांशुया. जेऽपि चाऽऽश्नावणस्य गां दोहपवित्र रज्जमित्यादिकस्यापरप्रत्ययनार्थस्याप्युच्चैर्यथा स्यादिति प्रयोजनम् ।

उच्चैरितराभ्याम् ।

ऋग्वेदसामवेदाम्यां यद्विधीयते तदुच्चैः क्रियते । एतदर्थवादस्तत्तत्सूत्र एव ज्ञेयः । अत्र निगदानां याजुर्वेदिकानामपि विनियोगविधेग्वेदस्थत्वादुच्चैष्ट्वमेव । ननु याजुर्वेदिके होत्रे याजुर्वेदिक एवं विनियोग इति चेत् । न । गुणविधिमात्रार्थमुग्वेदविधेरेवानुवादो यजुर्वेदे । अत एवर्वेदविहितत्वेन होतृकर्तृकत्वाद्धौत्रमितिसमाख्या । गुणविधेरुत्पत्तिविधि- प्रयोगादिविधीनां चर्वेदस्थत्वादुच्चैरेव स्वरः । एवं चाऽऽध्वर्यवमपि श्रूयते तत्रदे, तदपि गुणविधिरेव याजुर्वेदिक उत्पत्तिविधौ सतीति ज्ञेयम् । ब्रह्मत्वेऽपि स्वस्ववेदानुसारेण स्वरो ज्ञेयो विशेषस्तु तत्तत्सूत्रेष्वेव ज्ञेयः । अथर्ववेदे वेदत्वेनोपाधिना ब्रह्मत्वं विना न किंचिदपि विहितमस्ति, तस्मात्तत्र विवाद एव नास्ति । ब्रह्मत्वे तूपांशत्वमेव । आथर्वणा वै काम्या इष्टयस्ता उपांशु क्रियन्त इति वक्ष्यति । ततो ज्ञायत आधर्वण- 'कर्मोपांश्वेवेति । दूरस्थस्य श्रवणयोग्यमुच्चैः ।

सर्वैरुपाꣳशु ।। १ ।। ज्योतिष्टोमे प्रागग्नीषोमीयात् ।

संवेदविहितं तदुपांश्चैव प्रयोक्तव्यम् । तत्रावधिरग्नीषोमीयपशोः पूर्वभावीनि कर्माणि। तत ऊर्ध्वं यथोक्तमित्यर्थः। अत्रोच्चैः प्रयोग अग्वेदसामवेदाभ्यामेव प्रतिोऽपोदि (हि)- १ ख. "महोत्र । ट. "मेह होत्र । २ छ. ट. लिथुपों वाज । ३ ट. 'पेये पठ्यते त । छ. पे पठ्यते त' । ५ छ. ट. मीत्योमु।६ क. च, स्योन्ने । . क. ग. च. पथ पवा । ८३.८. तो यो वेदि।