पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ३६ सत्याषाढविरचितं मौतसूक्ष- [१प्रथमप्रभे- मात्रेण कृतार्थत्वात् । तथोत्कृष्टानां शेषर्भूतमन्त्राणां लिनेन विकृतिगामित्वं च मा भूद्विरुक्तिदोषापत्तरप्राप्तप्रकृतिगामित्वमवेत्यपि प्रयोजनम् । प्रत्यक्षाणां हविरनुमन्त्र- णमन्त्राणां च प्रकृती विप्रतिषेधाद्विकृती स्पष्टेन लिङ्गेन विनियोगः । एतेषां प्रकृती विरोधाभावात्प्रकृतावेवौत्सागको विनियोगः सिद्धः । ते च मन्त्रा अच्छिद्रप्रपाठकादि- पठिता अथर्वणि च विषाणे वितं ग्रन्थिमित्यादयो यथायोग्य प्रकृतिगामिनो ज्ञेयाः। एतदपवादमाह-

वेदः कर्मनामधेयेन श्रूयमाणस्तदर्थः ।

अत्र प्रकरणेनासंबद्धानामपि शेषत्वेऽपि न प्रकृतिगामित्वमित्युक्तम् । सामान्यलि. स्य विशेषसंज्ञगा नियमात् । वेदो मन्त्रब्राह्मणात्मकः । मन्त्रा इति चानुवर्तते । वेदो मन्त्राश्च ये कर्मनाम्ना श्रूयमाणास्ते तत्कर्मार्थाः । उदाहरति-

यथा वाजपेयो याज्योपुरोनुवाक्याश्च ।

पानमन्नं सुरा पेयं यस्मिन्कर्मणि तद्वाजपेयाख्यं कर्म । तस्य नामधेयेन यस्मिन्या- जपेयो विधीयते स प्रश्नः काण्डो वा श्रूयमाणो वेदो वानपेय इति याज्ञिकेषु प्रसिद्धः।स वेबो वाजपेयः। न हि वेदो वाजपेयः किं तु वाजपेयार्थो वेदो वाजपेयः। प्रतिपाद्यप्रतिपाद- कयोरभेदविवक्षया प्रतिपाद्यकर्मनामधेयं प्रतिपादके वेदेऽपि प्रयुज्यते । अयं यजु- दोऽपि न प्रकृत्यर्थः किंतु विकृत्यर्थः । संज्ञयोत्सर्गस्य बाधात् , लिङ्गेन प्रकृतिवि- रोधाच्च। तज्यतेऽनया मा याज्या ततः पूर्व हविग्रहणायान्च्यत आहूयते देवचा यया साऽनुवाक्या । ' हयति वै पुरोनुवाक्यया प्रयच्छांत याज्यया' इति श्रुतेः । तथाच सकलयागलक्षणकर्मसंवन्धेन श्रूयमाणा योगेन सकलयागार्था नतु प्रकृतिमात्रार्थाः सर्वयाज्यानां प्रकृतिषु विप्रतिषेधात् । एवं यत्र प्रकरणे श्रूयते मन्त्रोऽसंबद्धस्तत उद्धृतः शेषात्तद्विनियोगे यज्ञकर्मार्था मन्त्रा इति सकळवेदप्रामाण्यं सिद्धम् । एवं च मन्त्रबाह्मणयोरित्यादिना प्रमाणस्वरूपं सप्रपञ्च निरूप्य प्रमाणविशेष- संबन्धोपाधिभिः प्रमेयगताम्सकलकर्मसाधारणधर्मान्व्याचष्टे-

उपाꣳशु यजुर्वेदेन क्रियते ।

यजुर्वेदेन यद्विधीयते ज्योतिष्टोमादि कर्माऽऽध्वर्यवमिति यावत् । तद्यजुर्वेदविहित- मुपांशु क्रियते कर्तव्यम् । करणवदशब्दममनःप्रयोगमुपाश्विति प्रातिशाख्यम् । मन्त्रोत्पत्तियद्यपि वेदान्तरस्था तथाऽपि विनियोगविधेः प्राबल्यं प्रयोगकाले तस्याऽऽदौ १ स. भूतं म । २ ख. छ. विध्यते। क. ग, च.. 'माणास्त' । ४ क. ग... च. "र्थाः । । ५ क. ख. ग. प. इ. च. . ज्यान ।