पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाविरचितं श्रौतसूत्र- [श्तृतीय-

पर्शपूर्णमासयोविकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयांसावित्युक्तम् । तत्र पञ्चदशी. प्रतिपदोहमयोरपि प्रातःकालो प्रकृत्यावरुद्धौ सथा चातिदेशतःप्राप्तौ विकृती काली - प्रकृत्या बाधितौ स्याताम् । न च प्रकृती सोमस्य विकृतेष्टीनां च कालविधानं स्वतन. पशोश्चान्वाधानं कृत्वा विकृतेरन्वाधानं क्रियेत यागानन्तरं पाग इति वाच्यम् । न कर्मणि कौरम्मो न्यायपस्तस्माद्विकृतिपर्वणि च । प्रकृतियागानन्तरमेव चाऽऽपयेत तदर्थमतिदेशप्राप्तस्य प्रत्यक्षश्रुस्याऽनुवादस्ततश्च यानि विष्टिपशुजन्धानां प्रत्यक्षाना. तानि तानि तत्र बलीयांसीरयुक्तेन न्यायेन पश्चदश्यां प्रकृतौ प्रातःकालबाधेन प्रवर्तते विकृतियुजनीय वा प्रकृति यागोत्तरकालं विकृतेद्वयह कालवाऽऽनुमानिकी सा गत्यन्तरा- भावाद्वाध्यते प्रकृत्येति पूर्व वा परं वा विकृत्यनुष्ठान सिद्धं भवति । तत्र काम्येष्टयः सद्यकाला उपांशुतन्त्राः पशवश्चति वक्ष्यति । तथाऽऽमावास्येन पौर्णमासेन वा हवि- पेष्टा काम्यैः पशुभिरिष्टिभिर्वा य नेतेति वक्ष्यति न तथाऽन्यपश्चिष्टिषु यदि श्वः काळ इति पशौ यहकालताविकल्यं च वक्ष्यति । तत्र पूर्वेधुरन्वाधानमित्यर्थादुक्तं, वदति च पूर्वस्य पर्वण औषवसथ्येऽहनीति पूर्वपर्वणि पञ्चदश्यां क्रियमाणयागस्यौपवमध्यमह- चतुर्दश्यपीति । तचेश्यामपि वैकलिषक ज्ञेयम् । अस्ति च पश्चदशीप्रतिपदोरुभयोरपि पत्वं यथा पच्चदश्या दर्शत्वमेव प्रतिपदोऽपि तथा पौर्णमासीत्वमपि तत्प्रथमपटले विस्तारितमिह संक्षेपतः मौत । अमावास्या शब्दः सूर्णचन्द्रमप्लोः परमेसंनिकर्षनिमित्तः पौर्णमासीशदश्च परमविप्रकर्षनिमित्तोऽनः संनिकर्षविप्रकाँ संधिमध्यमक्षणमात्रं तच पञ्चदशीप्रतिपदोः समानमेवेति तयोर्द्वयोरपि ग्रहणममावास्यापर्णिमासोशब्दाम्यां तयो- भनत्र विकृतिविधानार्थ. सूत्रितम् । अत्र केचिदाहरमावास्यायां पौर्णमास्यां चेति व्यत्ययेनाभिधानममावास्यापौर्णमाप्तीमध्यगस्य कालस्य यागाङ्गस्वख्यापनार्थम् । कामयेत वतीयास्यादिति तं पूर्वपक्षे यानयेचं कामयेत पापीयान्स्यादिति तमपरपक्ष इति विधिप्रतिषेधश्रुतिरप्यनुगृहीता स्यात्तथा छान्दोग्यसूत्रमनादेश उदगयन आपूर्यमाणपक्ष इति चेति । तथा दर्शपूर्णमासाभ्यामेकं फलापूर्व माध्यत इति द्वयोरेकप्रयोगता तत्र न कर्मणि कौरम्भ इति न्यायोऽप्यनुगृहीत इति । तन्नेष्टम् । आमावास्येन पौर्णमासेन वा इविषेष्ट्वा काम्ययागविधानात्सोमे चामावास्यायां यजनीये वाऽहनि पौर्णमास्यां यज. नीय वाऽहनि दीक्षासुत्ययोविधानस्य मानत्वादस्ति च श्रुतिरप्यामावास्येन पौर्णमासेन या हविषेष्ट्वा बीततेति. प्रत्यक्षश्रुत्या सोमे पूर्वपक्षयागनियमश्रुतिबधितैव तथा मध्ये चाव्यवधानमपि । छान्दोगसूत्रमनादेश इत्येवात्राऽऽदेशान्न तथा छान्दोगसूत्रं यं काम- येतेति श्रुतिरप्यनादेशं एवं सावकाशा । वक्ष्यति च गृझे पाकयज्ञेष्वापूर्यमाणपक्ष इति न कर्मणि कौरम्भ इत्यारम्भमात्रप्रतिषेधः । किंच ब्राह्मणभोजनान्ते प्रयोगे प्रयोगान्तर प्रतिषिध्यतेऽन्यया चातुर्मास्येषु मध्य आग्रयणेष्टिलोपः स्यादित्यलमतिपसङ्गेन ।