पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

y (अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ननु चविष्टौ कपालेष्वपि ग्रहणे निवृत्ते कपालानि सधर्मकाणि निवर्तन्ते तथा श्यामा- केष्टौ ब्रीहिनिर्वापे निवृत्ते व्रीहिषु सधर्मकेषु निवृत्तेषु स्थाल्यां श्यामाकेषु च तद्धर्मा न स्युरत माह-

अन्यस्मिꣳश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेशः ।

प्राकृताव्यादन्यस्मिन्द्रव्ये तेन प्राकृतेन प्राकृतद्रव्यसाध्येनार्थेनापूर्वप्रयोजनवता कर्मणा संयुज्यमानेऽङ्गत्वेन विधीयमाने तत्रापि धर्माणामावेशोऽतिदेशेन प्रादुर्भावः । अयमाशयः-न ह्यत्र पाकनिवृत्त्या कपालनिवृत्तिः किं तु सामर्थ्यसिद्धया स्थाल्या कपालस्थानापन्नया पाको हि चरोः प्राप्तः । तत्रापूर्वसाधनाभूता क्रिया न निवृत्ता। तस्याश्च साधनं जात्यन्तरविशिष्टमपि प्राप्तं, तत्स्थानापन्नं तद्बाध च तदेव पाकजन्या- पूर्वसाधनतयाऽङ्गं तस्मिन्नेवापूर्वप्रयुक्ताङ्गे धर्मा अपि भवन्त्येव । एवं पाणिनिः स्थानि- पदादेश इत्याह-अन्यथा तदपूर्वमेव तस्मान्नोत्पद्यतेति । उदाहरति-

स्थाल्यां कपालधर्मः श्यामाकेषु व्रीहिधर्मः ।

अतिदिश्यत इति शेषः । अप्राकृतेऽपि द्रव्येऽतिदेशनिरूपणमनेन स्पष्टम् । । द्रव्यसाध्यक्रियाया भनिवृत्तौ तत्स्थानापन्ने द्रव्यान्तरेऽपि धर्मातिदेशे चातिप्रसङ्ग- मासङ्कयाऽऽह-

यज्ञोत्पत्तौ प्रतिषिद्धे सर्वं प्रतिषिध्येत ।

यज्ञाद्यज्ञकर्मणोऽङ्गभूतात्कर्मण उत्पद्यतेऽथवा यज्ञाय प्रयोजनायोत्पद्यते तत्तथा । द्रव्य इत्यनुवर्तते । उत्पत्त्या प्रयोजनयोग्यताप्राप्तिलक्ष्यते । यस्मात्कर्मणे द्रव्यं संस्कृतं प्रयोजनयोग्यं भवति तत्कर्मविशिष्टद्रव्ये प्रतिषिद्धे तत्साध्य प्रयोजनमपूर्वसाधनीभूतं कर्म तत्प्रयुक्तम् । अन्यदपि धर्मजातमपि प्रतिषिध्येत । यूपो हि खातमानलक्षणेन कर्मणोत्पद्यते यज्ञप्रयोजनाय पशुनियोजनाय योग्यत्वेन प्राप्यः प्राप्तिविशिष्टे तस्मिन्प्रतिषिद्धे संस्कारा अपि प्रतिषिद्धेयुः । न च न दध्यधिश्रयतीतिव- न्मानमात्रं प्रतिषिद्धमन्यसंस्कारविशिष्टं न प्रतिषिद्धं तत्र नियोजनमपि न प्रतिषिद्ध- मिति मानं विनाऽन्यः संस्कारैः संस्कृतैः परिधावुल्मुके बर्हिषि वा पशुनियोजनमस्त्विति वाच्यम् । यद्येवं तर्हि यूपस्थानापन्नेषु परिध्यादिष्वेव न मिन्वन्तीत्येतावदेव वक्तव्यम् । यूपग्रहणमनर्थकम् । न च यूपवन्न मिन्वन्तीत्यर्थो भवेदिति वाच्यम् । परिध्यादिषु पशुप्रयोजनयोग्यतास्वरूपमपि मज्येत । अतः स्वस्वरूपप्रयुक्तरूपावाधेनैव पशुनियो- जनं तेषु विधीयत इति मानं स्वत एव निवृत्तं किमर्थ प्रतिषेधस्तस्माद्यूपस्य सकर्मकस्य प्रयोजनस्य स्थानिन एव प्रतिषेध इति द्रव्यान्तरमपूर्वमेव विधेयम् । न च तस्योपदे. शातिदेशाभ्यामन्ये संस्काराः स्युः । प्राकृतद्रव्यप्राप्तौ तत्स्थानिनस्तु तत्संस्काराः