पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ३७८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रो-

न मात्र प्रकृती प्रक्षालनादि साधनत्वेन द्रव्यं विधीयते पात्राणि प्रक्षास्येत्यादिना द्विती- पाश्रुत्या प्रधानवेनोद्देश्यत्वप्रतीतेने साधनता प्रक्षालनादिकियां प्रति व्याणां किंतु कर्मत्वेनोद्देश्यत्वम् । करोप्सिततमं कर्म कर्मणि द्वितीयेति पाणिनिस्मरणात् । तथा चेप्सिततमत्वमपूर्वार्थकर्मणां साधनत्वेन वाच्यम् । तत्साधनता कपालेण्वधिश्रयतीत्या- दिना कपालशूपादिषु चाधिश्रयणोद्वपनादिविधानात्साधनता तेषां प्रतीयते । तत्साधन. स्वेनेशिततमत्वाकर्मत्वं प्रक्षालनादिकर्माणि प्रति । अतः प्रक्षालनादीनां साध्यत्वं नास्ति किं तु तत्तत्साध्यक्रियासंबन्धाद्धर्म प्रक्षालनादिरूपं लभन्ते द्रव्याणि | धर्मश- देन संस्कारकर्मत्वेनाङ्गरवमुक्तं द्रव्यं प्रति । ततस्तु द्रव्यं चेदन्यत्रोपयुक्तं तद्देव संस्कारमर्हति नान्यथा । भूतभाव्यूपयोग हि द्रव्यं संस्कारमहतीति न्यायात् । संस्कार- कर्मणां न साक्षादपूर्वोत्पादकत्वं येन विधेयत्वमङ्गत्वेन स्यात् । किं तु यैस्तु द्रव्यं चिकोयते गुणस्तत्र प्रतीयतेति जैमिन्युक्तन्यायेनापूर्वोत्पादकत्वं किं तु साक्षास्पर- म्परया वा त्यपूर्वोत्पादककर्मसाधनेषु दृष्टमुपकारं जनयन्त्यपि नियमद्वारा वाऽऽधेयश- तिलक्षणादृष्टमपि द्रव्येषु जनयन्ति । प्रोक्षणादेः केवलमदृष्टमेव जन्यं द्रव्ये द्रव्यं चादृष्टशक्तिमत्साक्षादपूर्वसाधनीभूता क्रियां साधयति । यथा प्रयानादिरूपानाणां द्रव्यं किंचिद्रव्यं तु परम्परयाऽपूर्वसाधनीभूतक्रियासाधनक्रिया प्रत्यङ्गं सत्तहारा वा दृष्टश- क्तिमदपूर्वसाधनक्रियां साधयति यथा प्रक्षालनादिसंस्कृतद्रव्यं चापूर्वसाधनप्रधान- क्रियासाधनीभूतावहननादिकं साधयदपूर्वसाधनक्रियां साधयति । न च कृष्णलादिव्यं चावहननादिकं कस्तदृष्टोपकारकमर्थयतेऽतिदेशेनादृष्टोपकारस्य च तेभ्योऽक्लप्तत्वात् । तस्मादकृतोपकाराणि कर्माणि निवर्तन्नोऽतस्तत्साधनानि द्रव्याणि च निवर्तन्ते तद्व्यसं. स्कारकर्मापि स्वाश्रयाभावान्निवर्तते । विकृतिहि । न प्रकृत्यतिदेशेनाङ्गानि गृहीत्वा यथोचिसं दृष्टमदृष्टं चोपकारं गृह्णाति किं तु दृष्टमदृष्टं चोपकारमाकाङ्क्षमाणा तद. न्यङ्गानि गृह्णाति । तत्राऽऽरादुपकारकाणामदृष्टोपकारजनकानामङ्गानामेवाविशेषेण माहिका सती यावदपेक्षितदृष्टोपकारकाण्येव संनिपत्योपकाराणि गृह्णाति न तु निष्प- योजनान्यपि । तस्मानिष्प्रयोजनानि द्रव्याणि निवर्तन्त्र एवं संस्कारा अपि निष्प्रयो- जना निवर्तन्त इति । सूत्रार्थः । उदाहरति-

यथा कृष्णलेष्ववहननम् ।

यो मृत्योविभीयात्तस्मा एतां प्रानापत्या शतकृष्णलां निपेदिति कृष्णलानां सौवर्णानां कठिणद्रव्यत्वेनौषधविकाराणामपि वितुषीकरणलक्षणदृष्टसंस्कारानपेक्षणादव- हननं निवर्तत इति शेषः । कर्मण्यविद्यमाने सह धर्मद्रव्य निवर्तत इति पूर्वसूत्रादनु- पशः।