पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च . ३७६ सत्याषाढविरचितं श्रौतसूत्र- (तृतीयप्रभे--

व पौपियं च न सिध्यति । अतिदेशद्वये च पौर्वापर्य सिध्यत्येव तच्चेष्टम् । कथम् । स्वधर्मविकृतिषु च कथभावाकाक्षा पूर्वमतिविष्टाकान्नान्वयः पश्चादुपदिष्टाङ्गानाम् । कथंभावो ह्युपकाराकाङ्क्षा । सा तृप्तोपकारद्वाराऽतिदिष्टान्येवाङ्गानि प्रथमं गृह्णाति । औपदेशिकेषु तु नाद्याप्युपकारः कृतः । उपदेशान्यथानुपपत्त्या च दृष्टार्थानामाका. झयाऽङ्गिनि झुपकाराकाङ्क्षोत्थाप्या । तत उभयाकाङ्क्षया चाङ्गसंबन्धेऽवगते तेभ्य उपकारः कल्प्यः। दृष्टार्थेष्वप्यङ्गसंबन्धोत्तरकालं यथायोग्यं दृष्टोपकारकल्पना । तस्मावुपरिष्टानामङ्गानां - पश्चादतिदिष्टेभ्य एवान्वयः । तेनैव क्रमेण कृतेन विकृति- विकृतिष्वप्यतिदेशयोः क्रमः सिध्यति । सर्वसाधारणातिदेशस्य चाऽऽदौ बुद्धिस्थ-

स्वात् । पश्चाद्विशेषसामान्येन पूर्वमदृष्टेनाधुनैत्र कल्प्येन विशेषातिदेश इति क्रमयो.

‘रतिदेशोऽपि सिद्धो भवति । अत एवाऽऽहुवृद्धा:-न हि भिक्षुको भिक्षुकाचाचत इति । विकृतिहि भिक्षुकोऽत्यन्तो(न्यतो)लब्धाङ्गत्वात् । स तु स्वपुष्ट्यर्थमेव पानानि लभते न तु परस्मै दातुमपोति न्यायार्थः । एवं नियतप्रकृतिविकृतिभावे च सिद्धे

पौर्वापर्य' चाऽऽमिक्षा विकृतिविकृतिष्वपि चाङ्गव्यवस्था सिध्यति । तथा हि सर्वा

अप्यामिक्षाः प्रातर्दोहविकृत यो दर्शविकारा भवन्ति । पश्चाद्वैश्वदेवामिक्षा स्वधर्मा तस्यां ध्युद्धरणाद्यङ्गनातस्य हौत्रस्य चास्मच्छाखायां विधानात् । दाक्षायणयज्ञे घाऽऽमि- क्षाऽपि स्वधर्मा । तथा च तां प्रकृत्याऽऽह कात्यायनः-तत्रैव दोहनं शृते वा दध्या- नयति । वाजिनं निषिच्योत्करे करोत्याज्यलिप्तं वा प्रहृत्य तृणं तेन प्रचरति विमुच्य

वा खुधौ बहिरवसिञ्चन्गृह्णाति । तद्दर्भेषु रेतो दधातीति श्रुतेरिति । अस्मत्सूत्रकृता

"तु स्वशाखानुसारेण दाक्षायणयज्ञाभिक्षाधर्मोपदेशोऽपि वैश्वदेव्यामेव व्याख्यातः । "यथाऽग्नीषोमीयादिपशुधर्मोपदेशो निरूढ एवैवमिहापि । एवं च दाक्षायणयज्ञामिक्षायां वैश्वदेव्यतिदेशेन नवप्रयाजादिपाप्तमपि तस्यां दर्शशब्दवाच्यायां पञ्चप्रयानादिकेनौप. शिकेन बाध्यते । तथा पञ्चप्रयानादिक वैश्वदेव्यामतिदेशेन प्राप्तं नवप्रयाजादिकेनो- पदेशेन बाध्यते । तथैव वरुणप्रघासामिक्षयोरपि । तत्राप्येतद्राह्मणान्येव पञ्च हवीषि भवन्तीति पञ्चानां नवप्रयाजादिक वाचनिकातिदेशेन प्राप्तं तेषां भूयस्त्वादामिक्षयो- रपि पश्चप्रयानादिकं तेन बाध्यते । इतरामिक्षासु वैश्वदेव्यतिदेशान्नवप्रयानादि प्रोमोति दाक्षायणयज्ञामिक्षातिदेशेन पञ्चप्रयाजतादि प्राप्नोति । तथा दर्शपयोविकार- वेनापि पश्चप्रयानतादिकं प्रथमत एव प्राप्तमुपजीव्य दाक्षायणामिक्षातिदेश एवं प्रबल इति पञ्चप्रयानादिकं सिध्यति । सोमे सवनीयामिक्षासु तु पशुबन्धस्य सवनीयस्यैकाद- शप्रयाजादिना तन्त्रेण स्थानिना सवनीयपुरोडाशानासन्नोपकुर्वता न तन्त्रं बाधितमेवेति ज्ञेयम् । -: एवं दार्शपीर्णमासिकानि प्रधानानीत्यादिनाऽतिदेश(श)बलाबलमुक्त्वाऽतिदेशाप- बादमाह- -