पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७५

दार्शपौर्णमासिकानीत्यादिनाऽतिदेशं तबलाबलं चोक्त्वाऽधुनाऽऽमिक्षावभृथपशु- बन्धेषु केषुचिच्चातिदेशहेतोरस्वधर्मत्वस्यामावान्न विकृतित्वम् । तदन्यामिक्षापशुत्र न्धास्तु हविःसंज्ञासाम्येन तन्मात्रविकारा इति दर्शपूर्णमासविकृतिरुत्तरा ततिरविशेषे- जोक्ता तत्संकोचनीयम् । कुतः, स्वधर्मा प्रकृतिरस्वधर्मा विकृतिरिति विमागहेत्वो. स्तानि स्वधर्माणीति सूत्रावयवात्फलितयोविद्यमानस्वादित्याशक्याऽऽह-

दर्शपूर्णमासप्रकृतय इष्टिपशुबन्धास्ते स्वधर्माणः सामान्याद्विकारः ।

तएव स्वधर्माणः सामान्यात्तद्विकारश्चेष्टिपशुबन्धा ये सऽप्यविशेषेण दर्शपूर्णमास- प्रकृतय एवोक्ताः । दर्शपूर्णमासौ प्रकृतिर्येषामिति विग्रहः । निर्वपतिना चोदिता इष्टय आलमतिना चोदिताः पशुबन्धाः। तत्र लिङ्गेनातिदेशोऽस्तीत्येतावदेव सिद्धमतिः- देशप्रयोजकं तु सादृश्यं तच्चापूर्वे कर्मणि देवतासामान्येन हविःसामान्येन वा। ततस्तु देवतासाम्यं यद्यप्यव्यापकं तथाऽपि हविःसामान्यं तु व्यापकमेव । यद्यपि चौषधत्वमाज्यत्वं दधित्वं पयस्त्वमेव जातिरूपं सामान्यमव्यापकं तथाऽपि तदसंभवे चोपाधिरूपं च सामान्यं सर्वत्र संभवत्येव । तच्च कठिनद्रव्यत्वेन कृष्णलेषु द्रवद्रव्यत्वेन मधुन्यप्सु च पूर्व दर्शितमेव । तथा च सर्वेष्टीनामेकैकदर्शपूर्णमासप्रधा. नसामान्येन सादृश्यं व्यापकमतिदेशप्रयोजकमस्त्येव । पशौ च लिङ्गेनातिदेशे सिदे 1 तत्रापि पशुप्रभवत्वेन सामान्येन सादृश्यं सर्वपशुबन्धसाधारणमतिदेशप्रयोजकमस्त्येव । प्रकृतित्वे प्रयोनकं चोपदिष्टसकाङ्गवत्त्वम् । तच्च सर्व दार्शपौर्णमासिकप्रधानानुया- येव । विकृतित्वे प्रयोजकं सर्वेष्टिषु च दर्शपूर्णमासाङ्गहीनत्वमतो दर्शपूर्णमासप्रकृ. तय इष्टिपशुबन्धाः सर्वेऽप्यविशेषेणोपदेशदर्शितास्त एव स्वधर्माणस्तेऽपि न दर्शपूर्ण- मासधर्मेधर्मवन्तोऽतो दर्शपूर्णमासविकृतयः सन्तः स्वधर्माणोऽपि भवन्ति । ये स्वधर्में: स्वधर्माणस्तद्धर्महीनानामेव प्रकृतयस्तद्धर्महीनाश्च तावत्यतिदेशलाभेन तावता च तद्विः कृतयो न तु तद्विकृतय एव । दार्शपौर्णमासाङ्गानां तेभ्योऽतिदेशाभावात् । न चाति- दिष्टाङ्गसहिताः स्वधर्माम एव संपूर्णातिदेशप्रयोजकाः स्युः । तथात्वे वा दर्शपूर्ण- मासानुष्ठानानन्तरमनुष्ठीयमाना विकृतिः सकलाङ्गपूर्णा तदनन्तरमनुष्ठीयमानायां(या) विकृतेः प्रकृतिः सा च तदनन्तरमनुष्ठीयमानाया इत्यापद्येत । न च तत्रातिदेशप्रयोजक सामान्य नियतमस्ति । न च सर्वपुरुषसाधारण्येनेष्टिपशुबन्धानामनुष्ठानक्रमोऽस्ति । तथा चाव्यवस्था स्यात् ।क्रमानुष्ठितकर्मसु चातिदेशप्रयोननं सामान्यं च दुर्लभमेव । तस्मादर्शपूर्णमासावेवाऽऽदौ सर्वेषां प्रकृतिः । तत्सामान्ये तदितरा विकृतिः सर्वाऽपीति लाघवम् । किं च विकृतिः स्वधर्माऽपि दर्शपूर्णमासातिदेशेनाङ्गानि प्राप्यान्यस्मै प्रयच्छतीति वाच्यम् । विशिष्टातिदेशेऽपि दर्शपूर्णमासातिदेशे बुद्धिस्थे सति पश्चात्स्वधर्म- वैशिष्टये बुद्धिस्थे सति पश्चाद्विकृतिविकृतिषु विशिष्टातिदेशस्तद्वरं सार्वत्रिक एकोऽति- देशो द्वितीयः स्वधर्मविकृतेरपीति लाघवम् । विशिष्टातिदेशे चातिदेशयोर्विकृतिविकृतिषु