पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ.पटलः] . महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७३ महः साद्यस्केषु सह पशूनालभत इति श्रूयते । तत्र सहश्रुत्याऽग्नीषोमीयाग्नेयानूबन्ध्या- पशूनां सहालम्भेऽवगतेऽग्नीषोमीयस्य सवनीयात्पूर्वस्थानसामान्येन तत्संनिकृष्टतयैवाव्य- वधानेन प्राप्तं पूर्वभावित्वं तत्प्रकृतौ श्रुतेनाऽऽश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवी. याऽऽग्नेयं सवनीयं पशुमुपाकरोतीति त्वाप्रत्ययसनाथेन विधिनाऽऽश्विनग्रहानन्तर्य विहितं तद्विकृतौ चोदकेन तथैव प्राप्तमनेनाग्नीषोमीयस्य स्थान बाध्यते । विधिर्हि प्राप्तयोग्रहग्रहणाग्नेयालम्भयोरानन्तर्यमानं विधत्ते प्रत्यक्षो विधिः । अग्नीषोमीयस्य स्थानानुमितो यद्यपि विधिरेव प्रमाणं तथाऽपि स स्थानमतिदिष्टमुपजीव्यानुमीयते । स्थाने बाधिते सोऽपि बाधित एवेति स्थानाद्विधिरित्युक्तम् । न च सहश्रुतिसहकृतों विधिरौपदेशिको(क आ)तिदेशिकं बाधेतेति सह श्रूयते संनिकर्षमात्रं वाच्यं न पौर्यि- मपि । न च स्थानसहकृतः सहालम्भविधिरौपदेशिको येन प्रबलो भवति । किं चं प्राप्त आलम्भे गुणद्वयं साहित्यं पूर्वभावित्तं न विधातुं शक्यते । तस्मात्स्थानानुमित एव बाधितो विधिः।

विधेरङ्गम् ।

विधिनाऽऽश्विनानन्तर्यमवगतं साङ्गस्य सवनीयालम्भस्य तन्मध्ये यथाऽग्नीषोमीया- लम्भस्य नावकाशोऽस्ति तद्वदेव तदङ्गानामपीत्येवं प्राप्ते विधेरङ्गं साहित्यविधेरा. लम्भानां संनिकर्षावगमे सति तत्तदालम्भलक्षणसंज्ञपनस्याङ्गमननुष्ठायाऽऽलम्भः कर्तु शक्यते । तस्मादङ्गविधिना साहित्यविधिर्बाध्यते । न च तेषां सर्वेषां तत्तदालम्भात्पूर्व: मेव करणं युक्तमौत्सर्गिकपदार्थानुसमयबाधितसंसृष्टान्येकापवर्गाणीत्यभिहिते काण्डा. नुसमये तु न प्रमाणमस्ति । तस्मात्साहित्यावगतैरङ्गैः पदार्थानुसमयेनाग्नीषोमीयाल- म्भाङ्गराश्चिनानन्तर्य साङ्गसवनीयालम्भस्यातिदिष्टं बाधितम् ।

अङ्गात्प्रधानम् ।

ऐन्द्रावरुणः पुरोडाश ऐन्द्रावरुणी चाऽऽमिक्षा पापयक्ष्मगृहीतस्य श्रूयते । काम्ये. ष्टिभिश्च दर्शपूर्णमासौ संस्थाप्य यजेतेति श्रूयते । ततः प्रतिपदि सद्यस्काला एव सांनाय्यवत्यो यहकाला इति सानाय्यविकृतेद्यहकालतेति नित्येन हविषेष्ट्वा सायदोहं कृत्वा द्वितीयायां याग इति प्राप्तेऽङ्गात्प्रधानमित्युक्तमङ्गस्य कालः प्रधानकालेन पर्वणा बाध्य इति । चतुर्दश्यां दोहः पञ्चदश्यां यागो वैश्वदेवपर्वणि तथा दृष्टत्वादित्याशक्य नित्येन हविषेष्ट्रेति काम्येष्टिपशुबन्धानां नित्येष्ट्यनन्तरमनुष्ठानं श्रुतिप्रामाण्या दा]ह--

११. ट. ठ. 'यस्केषु ।