पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अपटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

विधिलक्षणके कर्मण्यन्यत्प्रमाणमस्ति । विधिविहितस्य कर्मणो ह्याकाङ्क्षा जायते कथमिष्टं मावनीयमिति । तत्र संनिधौ नोपकारकं पश्यत्पूर्वस्मात्सदृशात्तल्लाभं दृष्ट्वोप. कारकाणामङ्गानामङ्गिनिबद्धानामनेकेषां नानोपकारकाणां प्रत्येकं संनिधापनेऽतिगौरवं म्यादिति प्रकृतं प्रधानकर्मैव संनिधाप्यते । तदिदमप्युक्तं दार्शपौर्णमासिकानि प्रधाना- न्येव पूर्व विहितान्युत्तरततावनुषज्यन्ते । तत्रोपकारकमात्रमङ्गनातं गृहीतं स्वसादृश्य- प्रतियोगितया प्रधानमपि गृह्यते नोपकारकत्वेन प्रधानस्य प्रधानोपकारकत्वेन कृप्तत्वात्त. दप्युक्तं सादृश्यमात्रेण विकृतिभावो न तु ताद्रूप्येण दृष्टोऽस्ति तदङ्गसदृशान्यङ्गानि गृहीत्वा पूर्वमङ्गाङ्गित्वेन परिणतो विकृतिर्भवति । प्रत्यक्षानिर्देशे ह्येवमेव वाक्यं दृश्यते । तथा हिसमानमितरच्छयेनेनेति वाक्यस्य वेषुसंज्ञक एकाहे श्रुतस्य श्येनयागेतिकर्तव्यतासदृशीतिकर्तव्यतोचिताऽपि कर्तव्येति वाक्यार्थावगमादिहापि तादृशमेव वाक्यमनुमीयतेत्युक्तमाग्ने यवत्सौर्य इत्यादि । तथा चैतद्राह्मणान्येव पञ्च "हवीश्षि भवन्त्येतह्राह्मण ऐन्द्राग्न एतद्राह्मण एककपाल इति प्रत्यक्षवाक्यानि(णि) मासमग्निहोत्रमिति गौणवृत्त्या पर्यवप्तन्नदृष्टान्तानि लिङ्गानि पूर्वोक्तातिदेशवाक्या. ध्याहारे देवताप्तामान्येन हविःसामान्येनेतीष्टि पशुविषयत्वेनोक्तं सोमे त्वव्यक्तचोद. नाऽपि वश्यते । ननूक्तमुत्तरततिगतेष्टिपशुबन्धानां दार्शपौर्णमासिकान्येव प्रधानानि प्रकृतिरेतद्राह्मणान्येव पञ्च हवींषि भवन्तत्यित्र वैश्वदेवहवींषि वरुणप्रवासादिह. विषां प्रकृतित्वेन श्रूयन्ते मासाग्निहोत्रे दर्विहोमेऽपि प्राकृताग्निहोत्रविकृतित्वं दृश्यत इति चेत् । सत्यम्, न्यायेनातिदेशे हि दार्शपौर्णमासिकानीत्यादिनियमो वचनेनान्य. थात्वेऽपि न दोषः । दर्शपूर्णमासप्रकृतिकत्वे सत्येवान्यप्रकृतिकत्वं पञ्चपशु. व्यतिरिक्तपशुष्वपि लिङ्गदर्शनेन पञ्चपशप्रकृतिकत्वं चापि । तस्मादुक्तलक्षणवा. क्याध्याहारसहितकर्मविधिरेवातिदेशाख्यं प्रमाणमभियुक्तवाक्ययोरप्येवमेवार्थः । तथा हि... अन्यत्रैवं दर्शपूर्णमासयोज्योतिष्टोमे च प्रतीताया विहितायाः कृत्स्नाया धर्मसंततरेङ्गक्रमस्यान्यत्र धर्मसंततिरहितेषु कार्यत उपकारद्वारा प्राप्तिः प्रापर्क वचनमतिदेश इत्यर्थः । तथा प्राकृतात्प्रकृतिभूताद्यस्माद्धर्मयुक्तात्तत्समानेषु समान- धर्मयुक्तेषु धर्मविहीनेषु साकाक्षेषु धर्मप्रदेशो धर्मप्राप्तिर्येन वाक्येन सविधिकेन भवेत्तत्सविधिकमध्याहारवाक्यमतिदेश इत्यनेन रूपेणावस्थिता इत्यर्थः ।

एवमतिदेशस्वरूपमभिधायेदानी तहलाबलचिन्ता क्रियते-

विप्रतिषेधे हविःसामान्यं बलीयः।

देवतासामान्यहविःसामान्ययोर्विरोधे हविःसामान्येन यत्र सादृश्यं तद्बलीयो हविषो योगक्रियाश्रयत्वेनान्तरङ्गत्वाद्देवतायास्तु प्रतिग्रहीतृत्वेन बहिरङ्गत्वात्सर्वत्र हविर्विशे. षणत्वाच देवतायास्तद्धिते चतुर्थ्यन्ते च विशेष्यं तु रूढीतिबुद्ध्यारूढं भवतीति भावः । ४.