पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ०पटलः ] महादेवकृतवेजयन्तीव्याख्यासमेतम् । ३६७

ननु ज्योतिष्टोममात्रस्य स्वधर्मत्वेऽप्येकाहादीनामतथात्वात्तत्र दर्शपूर्णमासातिदेशः कथं न स्यात्तथाऽत्र यदि दार्शपौर्णमासिककर्मपरिणामो नोत्तरततिस्तदा कथं प्रकृतिविकृतिता स्यान्मृद्धटयोरेव तथात्वदर्शनात्तथा च सर्वाण्युत्तरततावतिदिश्यन्ते तदाऽपि धर्माणां विरोधो वा विकल्पो वा स्यादत आह-

सादृश्याद्विकारः।

अहीनादयः साकाङ्क्षा अपि ज्योतिष्टोमादेवाव्यक्तचोदनात्वेन सादृश्यात्तस्य विकारा न तु दार्शपौर्णमासिकानां व्यक्तचोदनानां, तस्मादिष्टिपशुबधा एव द्रव्यदे. वतासंबन्धनोत्पन्ना व्यक्तचोदनत्वेन सादृश्याद्विकारा न तु विना द्रव्यदेवतासंबन्धमुत्प. नस्य ज्योतिष्टोमस्येत्यपि सिध्यति । तथा दार्शपौर्णमासिकप्रधानसादृश्यादेव विकारो न तु त्रिक्षणस्थितिस्वभावानि कर्माण्यन्याकारेण परिणति गच्छेयुरतो गौणः प्रकृतिवि. कृतिभावो न तु मुख्यो मृद्धटवत्साङ्गदर्शपूर्णमाप्तयोरर्थेऽवयवा इव येऽवयवा अङ्गानि तान्युत्तरततौ विद्यन्त इति स विकारः । न च सर्वाणि सर्वत्रातिदिश्यन्तेऽपि तु पर- स्परमवान्तरसादृश्यादेकस्यैवैकत्रातिदेश इति त्रेधाऽऽवृत्त्या सूत्रं योज्यम् । तथा सादृश्यात्तदिदं कार्यमिति वाक्यमतिदेश इतीयता सूत्रसंदर्भेणोक्तम् । तदुक्तममि. युक्तैः- 'अन्यत्रैव प्रतीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयते ॥ इति । प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मप्रदेशो येन स्यात्सोऽतिदेश इति स्मृतः ' ॥ इति च । ननु वैदिकं कर्म यथा चोदितं तथा च फलायालं न तु तद्वत्कर्तव्यमिति विधिरस्ति न च कल्प्यः प्रमाणाभावादित्याशङ्क्याऽऽह-

स लिङ्गेन गम्येत ।

सादृश्याद्विकारो लिङ्गेन लिङ्गदर्शनेन ज्ञातव्यः । विशेषलिङ्गे सति विशेषे ततस्तु सुतरामतिदेशसद्भावः सिद्ध एवेत्यर्थः । तथा हि-प्रयाने प्रयाने कृष्णलं जुहोतीति प्रयाजानुवाद इष्टौ तथाऽऽघारमाघार्यपशु समनक्तीति पशौ चाऽऽघारानुवादो नैवमे- काहादिषु । तस्माज्ज्ञायते स्थालीपुलकन्यायेन वाचनिकातिदेशेषु च सर्वाङ्गोपसंहारे- णातिदेशदर्शनाच्च दार्शपौर्णमासिकप्रधानधर्मा इष्टिषु पशुषु च । तथा ज्योतिष्टोम- धर्माः स्तोत्र शस्त्रादयस्तावत्क्वचिदेकाहाहीनादिष्वन्द्य गुणा विधीयन्तेऽतो ज्ञायते ज्योतिष्टोमविकारा इति ।

6 १५. र. ज. झ... सामान्यादि।