पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयपने-

नान्यानेयादीनि उत्तरस्यां दर्शपूर्णमासौ हि संहितायामिषे त्वेति प्रपाठके पठितमन्त्री पुरोडाशप्रश्नाम्यां व्याख्यातौ । तथा सं त्वेति प्रश्नन पाकयज्ञमित्यादितोऽनुवाकैः षड्भिविश्वरूप इति समिध इति च प्रश्नाभ्यां याज्याकाण्डेन च व्याख्यातौ । तयोः काण्डं प्रथममिषे त्वेत्युपक्रमवशात्पूर्वत्वं तत उत्तरत्र शाखायां यानि विधीयन्ते तान्य. त्तरोत्तराणि । तानि सर्वाणि व्यस्तान्येवेति वैमृधादिपवान्तया संतत्या संतानेन क्रमेण सूत्रकृता व्याख्यातानि | तान्युत्तरा ततिस्तस्यां चोद्यन्तेऽतिविश्यन्ते । सोमो ज्योतिष्ठोम एकाहाहीनसत्राणि । धर्मः प्रवर्यो दविहोमाः पिण्डपितृयज्ञोऽग्निहोत्रादयस्ते. म्योऽन्यस्यां ततौ । ननु दर्शपूर्णमासी गतिविश्यमानौ परस्परविलक्षणनानाधर्मसमु. दायात्मको तो कथं धर्मनियामको स्यातामिति शङ्का तदर्थसमुदायिग्रहणान्ते हि सामा- न्यधधर्मवन्तः प्रतिनियतधर्मकाश्चैकैक एकैकत्र कर्मण्यतिदिश्यत इत्यर्थः । ननु समु. दायो हि फलसाधनं फलापूर्वकरणेतिकर्तव्यता सहकारिणी सा प्रत्येकं कथं स्यादत भाह-प्रधानानीति । उत्पत्तिविधयो हि प्रातिस्विकास्तविहितेष्वेवेतिकर्तव्यताग्रहणा- प्रत्येक साङ्गता प्रधानता च । प्रधानसमुदायो हि फलार्थ विधीयतेऽतः प्रत्येक प्रधान मुत्तरततिगते कर्मण्येकै कस्मिन्नेवातिदिश्यत इति मावः । ननु दार्शपोर्णमासिकान्येवातिदिश्यन्ते सोमादिभ्योऽन्येष्वेवेति नियमौ कस्मात्तथा च प्रधानेष्वतिदिष्टेषु कथमङ्गप्रातिर्न हि प्रधानान्यङ्गानि भवन्तीत्यत आह-

तानि स्वधर्माणि ।

स्वस्वसंबन्धेन विहिताः स्वीया धर्मा अङ्गानि येषां तानि तथा यतस्तानि तानि स्वधर्मपूर्णानि । यद्धि पूर्णधर्मकं तद्ध्यपूर्णधर्मकेऽतिदिश्यते । दर्शपूर्णमासावुपदिष्टध भको वैमृधादिष्वनुपदिष्टधर्मकेष्वेव सापेक्षेष्वेवातिदेष्टव्यौ न तु सोमाविषूपदिष्टपूर्ण धर्मकेण्वपि निरपेक्षेषु । यत्र चाऽऽग्नेयवस्कर्तव्यमित्युच्यते तत्र वत्प्रत्ययेन तत्प्रकारक कर्तव्यमिति गम्यते न तु तदिदं कर्तव्यमित्यतिदिश्यते विरोधात् । सति ह्यङ्गसापेक्षे कर्मणि तदपेक्षानिवर्तनार्थ तद्वदित्युच्यते । तदेव चेदेतस्य स्थाने स्याद्वतिप्रयोगो विरु- श्येत । तस्मात्प्रधानान्यतिदिश्यमानान्यप्यर्थात्स्वधर्माणि स्वधर्मयुक्तान्यतिदिश्यन्ते । तथा च तद्धर्मयुक्तमेतत्कर्तव्यमित्यर्थो भवतीत्यर्थः । लोके हि बालो व्युत्पाद्यते यदा वर्णग्रहणे तदा ककारे व्यञ्जनेऽकारादिस्वरान्योजयित्वा वदति खकारोऽपि तद्वदिति तदा बालोऽप्यविद्यमानान्खकारे ककारे दृष्टान कारादीन्योजयति तद्वदिहापि । किंच न हि कृतं पुनः कर्तुं शक्यं किं तु तादृशं तथाऽङ्गान्यपि कृतानि पुनरत्र तान्येव न कर्तुं शक्यन्ते किंतु तज्जातीयानीत्येव । कर्म तु शब्दान्तरादिनिर्भिन्नजातीयत्वेनावगतं I तत्र तज्जातीयता स्वशक्या कर्तुमिति च ज्ञेयम् ।