पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ सत्याषाढविरचितं श्रौतसूत्र- तृतीयपने-

वा तत्रैव प्रक्षेपान्तदानार्थस्वाहाकारः प्रयुज्यते रूढयेव । स्वाहाकारण वषट्कारेण या देवतायै हविदीयत इति श्रुत्या ह्यविशेषेण भयोद नार्थत्वमेवक्तं तथाऽपि यातिदाने वषट्कार एव रूढया श्रुत्या च यथा वै समृतसोमा इत्यनुवाकेन प्रजा- पतिर्देवासुरानसृजतेत्यनेन चाङ्गत्वेन विहितः प्रतीयते । तद्वज्जुहोतिचोदित एवं दाने स्वाहाशब्दो दानार्थः प्रयुज्यते रूढ्या वागभ्यवदादित्यादिना श्रुत्या च तहशि. तमेव प्रयानव्याख्याने । तथा च चतुरवत्तं जुहोती त्यादौ नुहोतिना बादितस्य दानस्य वषट्कारेण कृतस्य पुनः स्वाहाकारेण करणायोगात्तत्र प्रक्षेपमात्रेणोक्ता जहानिरित्ये- सस्थास्यासंभवान्न सदविहोमशब्दवाच्योऽस्वाहाकारत्वादिति पावः । ननु किमत्र व्याख्येय निसामान्येन दर्शपूर्गमामविध्यन्तेन साङ्गा एव होमा भगिन्ति । अस्ति तदङ्गमपि । यत्कीटावपन्नेन जुयादित्यादिनाऽग्निहोत्रऽपि दृश्योऽन्तःपरिधि निनयनं प्रायश्चितार्थ तदसत्यतिदेशे परिधि पत्तत्वं न स्यादिति भवस्येव लिङ्गमिलि शानिरासार्थ दर्विहोम इति विशिष्ट मुक्तम् । श्रुतौ विहोमत्वेनाप्रकृयविकृति- रूपा रूढ्या दविहोमशब्दवाच्यास्तान्ब्यास्यास्यामस्तेषां च स्वरूपं जूहोगी यादि नोक्तं ज्ञेयमित्युक्तं भवति । ननु कथं सति मादृश्ये चाप्रकृत्यविकृतिरूपा लिङ्ग विरोधेऽपीति चेदुच्यते-लिङ्गं च परिधिप्रदेशलक्षणोऽ(s)न्यथैव सिद्धमित्ये तत्यपश्चित जैमिनीयस्ततो ज्ञेयम् । अग्निचयने वैश्वानरं द्वादशकपालं निपेदित्यत्र निर्वपतिना यज्यनुमाने दर्शपूर्णमामविध्यातप्राप्तौ तत्प्रतिषेधार्थ दर्विहोमं करोतीति दविहोमसादृश्येन प्रयाजाद्यङ्गनात प्रतिषिद्धं तदर्थवदिव । यत्प्रयासान्या मान्कुर्या- द्विकस्तिः सा यज्ञस्येति प्राप्तप्रयाजादिमत्तां निन्दित्वा तद्विहितं दविहोममेव कुर्यादिति चोपसंहृतमतो ज्ञायते न दर्शादिविध्यन्तो होमेषु । तथा यदेकथा जुहुयादिति दविहोम- मन्द्य दर्विहोमत्वं निन्दित्वा च द्वयसाध्यया साम्येन स्तुत्वा पगेनुवाक्यामनुच्येत्या. दिना च द्वयसाध्यहोमेऽपि दानमस्तीत्युक्तम् । ततो न होमा विकृतयः, नापि प्रकृ. सयः स्वधर्मविरहात् । वक्ष्यति हि स्वधर्मवत्त्वे च प्रकृतित्वम् । यदप्यस्ति स्वधर्मवत्त्वम- ग्निहोत्रपिण्डपितृयज्ञादौ तदपि नातिदेशे प्रयोजकम् । अस्वधर्मेषु होभेषु स्वधर्माणा- मनेकेषां विद्यमानत्वाञ्च कस्यातिदेशः स्यात् । सर्वोपसंहारस्य चाशक्यत्वाद्विकल्प. स्याष्टदोषदूषितत्वात् । किं च न स्वधर्माणां सादृश्मात्रेणातिदेशोऽपि तु लिङ्गेनाति. देशेऽनुमिते यश्चा(चा)नस्थाविकल्पनिरासार्थ सादृश्येन नियममात्रं क्रियतेऽन्यथा विहितक्रियाऽन्येन सामान्येन परस्परं प्रकृतिविकृतिभावः सर्वेषामपि विधिलक्षणानां कर्मणां स्यात् , तच्चानिष्टमतः सति लिङ्गेऽतिदेशो मृग्यते । न चात्र स्वधर्मशीलम- दर्शनमखधर्मेषु होमेषु क्वचिदस्ति । तस्मान्न ते प्रकृतयस्तेषामत एव नान्ये विकृतयोऽ- परेषामिति । तत्र दविहोमशब्दो रूढ इत्युक्तं भवति । तस्मादङ्गावेदक प्रमाण न्यास्पेयमित्याशयः । यदपि वचनात्कौण्डपायिनामयनगते कर्मणि मासमग्निहोत्रं -