पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । अपः स्तोत्रं तथा शरूमपूर्वार्थ प्रचक्षते । तद्वारैव च तन्मन्त्रा दृष्टार्था अप्यपूर्वगाः ॥ ८॥ प्रधानगुणभूतस्य ज्ञानरूपस्य कर्मणः । उत्पादकास्तु ये मन्त्रा अकर्मकरणाः स्मृताः ॥ ९ ॥ ज्ञानं सर्व हि मन्त्राणां व्यापारोऽस्प्रिजायते । विहितज्ञानजनका व्यापारान्तरवनिताः ॥ १०॥ व्यापारवद्धि करणमकर्मकरणास्ततः । अर्थशानात्पृथग्यत्तु कर्म नानाविधं द्विधा ॥ ११ ॥ गुणप्रधानभेदेन पूर्ववत्तस्य लक्षणम् । तन्मन्त्राः कर्मकरणा ज्ञानव्यापारवत्तथा ॥ १२ ॥ एवं सूत्रकृता संज्ञाः कृताः स्वव्यवहारगाः । एताभिर्व्यवहर्तव्यं कर्मतन्मत्रयोरपि ॥ १३ ॥ ननु वेदैविधीयन्ते मन्त्रब्राह्मणात्मकैरिति मन्त्राणां विधायकैकवाक्यत्वेन प्रामाण्य- मुपक्षिप्त तत्समर्थनीयम् । अत एवाऽऽपस्तम्बाचार्यः-' मन्त्रब्राह्मणे यज्ञस्य प्रमाणे ' इति । न पाङ्गत्वे दृष्टद्वारा सिद्धेऽपि तोहीणांमिव प्रामाण्यं सिध्यति । उक्त च-प्रयोगवचनो मन्त्रैः सह प्रामाण्यमृच्छति ' इति । प्रयोगवचनः प्रयोगविधिर्मन्त्रैः सह प्रामाण्यं लभत इत्यर्थः । एवं चाङ्गत्वे सिद्धे प्रामाण्ये किमायातमिति चेदुच्यते- दृष्टद्वारा स्थितेऽङ्गत्वे मन्त्राणां वाक्यभावनः । स्मृत्युत्पादेन वाक्यार्थो मन्त्र व प्रभाव्यते ॥ तपाऽपि विहिता मन्त्राः स्मृत्यैवाङ्गत्वमागताः । नतूच्चारणमात्रेणेत्येवमर्थनियामकाः ॥ पदार्थविधया तस्मात्प्रामाण्यमपि लेभिरे । अङ्गत्वं विधिना द्वेषां प्रयोगविधिरूपिणी ॥ विहितानां पदार्थत्वात्स्वप्तामान्नियन्तृता । तथा च नियमज्ञानमन्यतो लम्यमाप्यते ॥ मन्त्रा हि वाक्यरूपा अपि विहितार्थानुसंधानजननसमर्था न स्वार्थे शब्दविधया प्रमाणम् । तथाऽपि स्रवेणावयति हस्तेनावद्यति स्वधितिनाऽवद्यतीत्यादौ विहिता अवि- शेषणापि नियमप्रमामुत्पादयन्त एव सुवेणैव द्रवद्रव्यं हस्तेन कठिनं पुरोडाशादि स्वधितिना च मांसमवदेयमिति स्वसामर्थेनैव स्रवादयोऽपि प्रयोगविधेः सहकारिणोऽ- १ क. ग. च. छ. °वद्विक । २ छ. पाम् । वि । ३ क. ग, च. छ. नैवातो धर्माद। rक, य, च, "णोs